________________
२९०
कुमारपालचरिते तव-परिपालणि जसु मणु वि मक्कड-घुग्घिउ देइ । आहर-जाहर भव-गहणि सो घई न हुँ प्राम्वेइ ॥ ६९ ॥ सग्गहों कॅहिँ करि जीव-दय दमु करि मोक्खहाँ रेसि । कहि कसु रेसिं तुहुँ अवर कम्मारम्भ करेसि ॥ ७० ॥ . कसु तेहिं परिगहु अलिउ कासु तणेण कहेसु । .... जसु विणु पुणु अवसे न सिवु अवस तमिकसि लेसु ॥७१॥
६९. यस्य मनः तपःपरिपालने मर्कटस्य घुग्धिकाम् इति तञ्चेष्टाम् । औत्सुक्यम् इति यावत् । ददाति वितरति । स पुरुषः। घई. इति पादपूरणे । भवगहने हु इति निश्चितम् एहि रे याहि रे इति गमनागमनक्रिया न प्राप्नोति । मुक्तो भवतीत्यर्थः ॥
हुहुरु । घुग्घिउ । “हुहुरु-घुग्धादयः शब्दचेष्टानुकरणयोः" [४२३] ।आदिग्रहणात् आहर । जाहर ।।
घई । “घइमादयोनर्थकाः” [४२४] ।
७०. स्वर्गस्यार्थे त्वं जीवदयां कुरु । मोक्षस्यार्थे च दमम् उपशमं कुरु । तथा त्वं कस्य अर्थे किंनिमित्तम् अपरान् कर्मारम्भान् करोषीति कथय । न कोपि अन्योर्थः आत्मनः सुखायेत्यर्थः ॥
७१. कस्यार्थे परिग्रहः हस्त्यश्वरथपादातधनधान्यादिरूपसंग्रहः । अलीकं कूटभाषणं च कस्यार्थे इति कथय । दुर्गतिहेतुत्वात् एते सुखाय क्रियमाणे अपि आत्मनो दुःखायैवेत्यर्थः । तर्हि किं गृह्णामीत्याह । जसु इति द्वितीयायाः षष्ठी [ ३.१३४ ] इति षष्ठी । अतः यं विना पुनः अवश्यं निश्चितं शिवं मुक्तिः न भवति । अवश्यं तं मुक्तिसाधनम् उपशमादिकम् एकशः लाहि । एकवारमपि चेत् तं भवान् गृहीतवांस्तदा मुक्तिः स्वाधीनेति भावः ॥