________________
[है. ८.४.४१७] अष्टमः सर्गः ।
२८७ रयण-तउ फुडु अणुसरहु अन्नह मुत्ति कहं ति। भण्डइ लब्भहिँ पउर धण अनु किं नहउ पडन्ति ॥ ६० ॥ कउ वढ भमिअइ भव-गहणि मुक्ख कहन्तिहु होइ । ऍहु जाणेवउँ जइ मणसि तो जिण-आगम जोइ ॥ ६१ ॥ चञ्चल संपय ध्रुवु मरणु सव्वु वि एम्ब भणेइ । मिलिवि समाणु महामुणिहिँ पर संजमु न करेइ ॥ ६२ ॥
६०. रत्नत्रयं ज्ञानदर्शनचारित्राणि स्फुटम् अनुसरत यूयम् आश्र. यत । अन्यथा रत्नत्रयं विना कथं मुक्तिरिति । इतिः वाक्यपरिसमाप्तौ। अत्रार्थे युक्तिं दर्शयन् आह । भाण्डेन क्रयाणकेन कृत्वा प्रचुराणि धनानि क्रेतव्यकर्पूरकस्तूरिकासुवर्णादिवस्तूनि लभ्यन्ते पुंसा आसाद्यन्ते । अन्यथा किं नमसः पतन्ति । भाण्डं विना न तानि संपद्यन्त इति भावः ॥ .
अन्नह । अनु । “ वाऽन्यथोनुः" [४१५] ॥ . ६१. कुतः कस्मात् कर्मणः भवगहने भ्रम्यते पर्यट्यते । कुतश्च . मोक्षो भवति । इति एतद् ज्ञातुं वढेति शीघ्रादित्वात् मूढ यदि मन्यसे
ततस्तदा वा जिनागमान् द्योतय इति धातूनाम् अनेकार्थत्वाद् गवेषय । 'अर्हत्समयं विना भवहानोपायः शिवसंप्राप्त्युपायश्च न ज्ञायत इति भावः ॥ कउ। कहन्तिहु । “कुतसः कउ कहन्तिहु" [४१६] । तो। " ततस्तदोस्तोः " [४१७] ॥
६२. संपत् चञ्चला । मरणं ध्रुवं निश्चितम् । एवं सर्वोपि भणति । परं महामुनिभिः समं मिलित्वा संबन्धम् अवाप्य संयम न करोति ॥