________________
२८४
कुमारपालचरिते अइसउ भणमि समत्तु करि थक्का जेत्थु वि तेत्थु । जत्तु वि तत्तु वि रइ करसु सुह-गर परइ तहेत्थु ॥ ५२ ॥ जाम्ब न इन्दिय वसि ठवइ ताम्ब न जिणइ कसाय । जाउँ कसायहँ न किउ खउ ताउँ न कम्म-विधाय ॥५३॥ ताम्वहिं कम्मइँ दुद्धरइँ जाम्बहिं तवु न वि होइ । जेवडु फलु तर्विं साहिअइ तेवडु मुणइ न कोइ ॥ ५४॥
५२. अहम् ईदृक् भणामि । किं तद् इत्याह । यत्र तत्रापि देशे काले वा स्थितः सम्यक्त्वं कुरु । तथा परस्मिन् अन्यजन्मनि तथा अत्र इह जन्मनि शुभकरां पुण्यजनिकां रतिम् । तीर्थकरादिपु अनुरागम् इत्यर्थः । यत्र तत्रापि स्थितः कुरुष्व ।। कइसउ । जइसउ । तइसउ । अइसउ । “ अतां डइसः '' [४०३] ।। जेत्थु । तेत्थु । जत्तु । तत्तु । " यत्र-तत्रयोस्त्रस्य डिदेत्थ्यत्तु '' [४ ० ४] ।
एत्थु । “ एत्थु कुत्रात्रे " [ ४०५ ] ॥ केत्थु । इति प्राक्पुरोप्युदाहृतम् आस्ते ।।
५३. यावद् इन्द्रियाणि वशे स्वतन्त्रतायां प्राणी न स्थापयति धरति तावत् कषायान् क्रोधादीन् न जयति पराभवति । ध्वंसयतीति यावत् । यावच्च कषायाणां क्षयो न कृतस्तावत् न कर्मविघातः । इन्द्रियजयपूर्वकः कषायजयः । तत्पूर्वकश्च कर्मक्षय इति भावः ।।
५४. तावत् कर्माणि दुर्धराणि दुर्जयानि यावत् तपो नापि नैव भवति । यावच्च यत्परिमाणं फलं तपसा साध्यते जन्यते तावत् तत्परिमाणं कोपि न जानाति । सर्वज्ञं विना न कोप्यपरस्तपःफलं सामन्त्येन ज्ञातुम् ईश इति भावः ॥
जाम्व । ताम्व । जाउं । ताउं । ताम्वहिं । जाम्वहिं । “यावत्तावतोर्वादेर्मउं महिं" [ ४०६ ] ॥