________________
[है० ८.४.४०२] अष्टमः सर्गः ।
२८३ जेम्ब इ तेम्व इ करुण करि जिम्ब तिम्व आचरि धम्मु । जिह वि हु तिह वि हु पसमु धरि जिधतिध तोडहि कम्मु ४९ किम्ब जम्मणु केम्वँ य मरणु किह भवु किध निव्वाणु । एहउ तेण परिजाणियइ जसु जिण-वैयण पैम्वाँणु ॥ ५० ॥ जेहउ केहउ होइ तरु तेहउ फल-परिणाम । कइसउ जइसउ तइसउ वि मन करि मिच्छा-धम्मु ॥५१॥
४९. यथा तथा येन तेन प्रकारेण करुणां प्राणिषु दयां कुरु । यथा तथा धर्मम् आचर अनुतिष्ठ । यथापि तथापि प्रशमं धर । यथा तथा कर्म त्रोटय छिन्द्धि । हुशब्दौ पादपूरणे ॥
५०. कथं केन प्रकारेण जन्म भवति । कथं मरणम् । कथं भवश्चातुर्गतिकसंसारः । कथं निर्वाणं च ईदृक एवंविधं जन्मादि तेन परिज्ञायते यस्य जिनवचनं समस्तार्थप्रतिपादकः अर्हत्सिद्धान्तः प्रमाणं तथेति प्रतीतो भवति ॥ . ___ जेम्वइ । तेम्वइ । जिम्वँ । तिम्व । जिह । तिह । जिध। तिध । किम्व । केम्वय । किह । किध । “ कथं-यथां-तथा थादेरेमेमेहेधा डितः" [४०१॥
. ५१. यादृक् कीदृक् तरुर्भवति तादृक् फलपरिणामः फलनिष्पत्तिर्भवति । अंतः कीदृशं यादृशं तादृशमपि मिथ्याधर्मम्। मन इति निषेधे । 'मा कुरु । यथा कटुकवृक्षस्य कटुकं फलं मधुरवृक्षस्य मधुरं फलम् तथा मिथ्याधर्मस्य दुर्गतिरूपं कटुकं फलं सुधर्मस्य सुगतिरूपं च फलम् इति मिथ्याधर्मम् अपहाय सद्धर्मम् आचरेति भावः ॥
एहउ । जेहउ । केहउ । तेहउ । “ यादृक्तादृक्कीदृगीदृशां दादेहः" [ ४०२] ॥
. १ D वयणु. २ BC प्रम्वाणु.३ BCD तथायथां.४ 0 ततः.५D शुद्धधर्म".