________________
२८२
कुमारपालचरिते गुरु-वय-अम्बलइँ निवु छिवह भत्तिं सिर-कमलेण । प्रिउ बोल्लंहु पिउ आचरहु तासु जि उवएसेण ॥४७॥ . वाया-संपय बास जिम्वे धरहिँ जि संपइ-लुद्ध । ते गुरु परिहरि विवइ-गर आवइ-डरिआ मुद्ध ॥ ४८॥
४७. यूयं शिरःकमलेन भक्त्या गुरुपदकमलानि नित्यं स्पृशत ।.. प्रणामं कुरुतेत्यर्थः । तथा तस्यैव गुरोरेव उपदेशेन शिक्षया प्रियं सर्वस्यापि अनुकूलं कथयत । प्रियं च आचरत अनुतिष्ठत ॥ .
सुद्धि-गर.। सुधे । सभला । जीविदु । कधिद । गुरु-वय । " अनादौ खरादसंयुक्तानां क-ख-त-थ-प-फां ग-घ-द-ध-ब-भाः " [३९६ ]॥ अनादाविति किम् । कि । करहा । पुलय । असंयुक्तानामिति किम् । अकयत्थ । सुअत्य । भत्तिं ॥ प्रायोधिकारात् कचिन्नं । पफुल्लिअं।
अम्बलई । कमलेण । “ मोनुनासिको वो वा” [ ३९७ ] ॥ प्रिउ । पिउ । " वाधो रो लुक्" [३९८] ॥
४८. संपल्लुब्धो व्यासो यथा [ ये] वाक्संपदं व्याख्याने वाग्मितां धरन्ति । धनलिप्सया जनरञ्जनाय व्याख्यान्तीत्यर्थः । तान् विपत्करान् असदुपदेशदानेन संसारदुःखजनकान् मुग्धान् मुक्तिप्रतिकूलाचरणान् मूर्खान् गुरून् हे आपत्त्रस्त जन्मजरामरणादिविपत्तिभीत परिहर मा अङ्गीकुरु ॥
बास । “ अभूतोपि क्वचित् " [ ३९९] ॥
संपइ । विवइ । आवइ । “आपद्विपत्संपदां द इ:" [ ४०० ] ॥ प्रायोधिकारात् संपय ॥
1 BC कमलइ; D कम्मलइ. २ BC बोलहु प्रिउ. ३ D कम्वलई.