________________
२८१
[है. ८.४.३९५] अष्टमः सर्गः ।
तव-छुरै छोल्हु अप्पणा कम्म खुडुक्कन्ताई। साहुहुँ पासहु सुद्धि-गर सुधैं गृहिअ वयणाई ॥ ४५ ॥ स-भला जीविदु कि न करहा मन वच्चह अकयस्थ । पुलय-पफुल्लिअ मणि धरह गुरु-अण-कधिद-सुअत्थ ॥४६॥
प्रस्सदि । “ दृशेः प्रस्सः " [ ३९३ ] ॥ गृहइ । “ ग्रहेण्हः” [ ३९४ ] ॥ ४५. साधूनां पार्थात् । साधुभ्य इत्यर्थः । शुद्धिकराणि ।
पुध्वि दुञ्चिन्नाणं दुपडिकन्ताणं कम्माणं वेइत्ता ।
मुक्खो नत्थि अवेइत्ता तवसा वा झोसइत्ता वा। इत्यादिकर्ममलापासनोपायप्रतिपादकसदुपदेशान् सुखेन गृहीत्वा प्राप्य आत्मीयानि खुडुक्कन्ताई इति अवतरन्ति स्खलन्ति शल्यायमानानि वा। आत्मनि अवस्थिति बध्नन्ति बाधां कुर्वन्ति महाव्यथाजननाद् अन्तःप्रविष्टतोमरादिकल्पानीति क्रमेण तात्पर्यार्थः । कर्माणि तपःक्षुरेण यूयं तक्ष्णुत तनूकुरुत । विनाशयतेति यावत् ॥
छोलह । “ तक्षादीनां छोल्लादयः '' [ ३९५ ] । आदिग्रहणाद् देशीषु ये क्रियावचना दृश्यन्ते ते उदाहार्याः । यथा खुड्डक्कन्ताई । इत्यादि ॥
४६. यूयं सफलं जीवितं किं न कुरुत । अपि तु विधत्तेत्यर्थः । तथा अकृतार्थाः असाधितधर्मार्थाः । मन इति देश्यः निषेधार्थः । तथा च प्रयोगः ॥
मन विरमउ तुह गुण-गहणि मज्झ जीह सय काल ॥ ततो मा व्रजत संसारं पर्यटत । कथं जीवितं सफलं भवतीत्याह । पुलकैः रोमाञ्चैः प्रफुल्लिताः संजातपुष्पोद्गमा इव गुरुजनकथितान् धर्माचार्योक्तान् श्रुतार्थान् आगमोक्तजीवाजीवादिपदार्थान् मनसि धरत वहत चित्ताद् मा विस्मारयतेति भावः ॥