________________
२७९
] है ० ८.४.३८१] अष्टमः सर्गः । . अम्हहँ मोह-परोहु गउ संजमु हुउ अम्हासु । विसय न लोलिम महु करहिँ म करहि इअ वीसासु ॥४०॥ रे मण करसि कि आलडी विसया अच्छहु दूरि । करणइँ अच्छह रुन्धिअ कड्डउँ सिव-फल भूरि ॥ ४१॥ इणपरि अप्पउ सिक्खविसु तुह अक्खहुँ परमत्थु । सुमरि जिणागम धम्मु करें संजमु वचु पसत्थु ॥ ४२ ॥ ४०. अस्मत् अस्मत्सकाशात् अस्माकं वा मोहप्ररोहः अज्ञानोद्भवो गतः विनष्टः । अस्मासु संयमः भूतः संजातः । विषयाश्च न लोलत्वं मम कुर्वन्तीति विश्वासं विश्रम्भं मा कार्षीः । विचित्रा हि कर्मणां गतिः इति चतुर्थपुरुषार्थ साधयिष्यता विषयाणाम् अवकाशः कथंचिदपि न देय इति भावः ॥
४१. रे मनः किं किमर्थम् आलिं परस्यादिप्रार्थनरूपानर्थ करोषि । आलिं मा कार्षीरित्यर्थः । तथा रे विषयाः यूयं दूरे आध्वं मद्गोचरे मा आगमत । रे करणानि च रुद्धानि नियन्त्रितानि यूयम् आध्वम् । किमित्येवं नियोग इत्याह । अहं भूरि प्रभूतं शिवफलं कर्षामि आत्मसात् करोमि ॥
४२. तथा जिनागमान् स्मर धर्म धर्मानुष्ठानं कुरु कुरुष्व वा । प्रशस्तं संयमं च सर्वविरतिं व्रजेति च तव वयं परमार्थम् आचक्ष्महे । - अम्हे । अम्हई । अम्हे । अम्हई । “ जश्शसोरम्हे अम्हई ” [३७६] ॥ मई । मई । मई । “टा-यमा मई" [ ३७७ ] ॥ अम्हेहिं । " अम्हेहिं मिसा" [३७८] ॥ मज्दु । महु । " महु मज्झु ङसिङस्भ्याम् " [ ३७९] ॥ अम्हहं । अम्हहं । " अम्हहं भ्यसाम्भ्याम् ' [ ३८० ] ॥ अम्हासु । “ सुपा अम्हासु" [ ३८१ ] ॥