________________
२७८
कुमारपालचरिते . . अम्हे निन्दउ को वि जणु अम्हइँ वण्णउ को वि। .. अम्हे निन्दहुँ कं वि न वि नम्हइँ वण्णहुँ कं वि ॥ ३७॥ मइँ मिल्लेवा भव-गहणु मइँ थिर एही बुद्धि । मत्था हत्थउ सु-गुरु मइँ पावउँ अप्पहों सुद्धि ॥ ३८ ॥ अम्हेंहिँ केण वि विहि-वसिण ऍहु मणुअत्तणु पत्तु । मज्झु अदूरे होउ सिवु महु वच्चउ मिच्छत्तु ॥ ३९॥ तुम्हेहिं । “ भिसा तुम्हेहिं ” [३७१] ॥
तुज्झु । तुध्र । तउ । तुज्झु । तउ। तुध्र । " सि-ङस्भ्यां तउ-तुज्झु-तुध्राः" [३७२] ॥
तुम्हहं । “ भ्यसाम्भ्यां तुम्हहं" [३७३] ॥ तुम्हासु । “तुम्हासु सुपा” [३७४] ॥ . हउं । " सावस्मदो हउं" [३७५] ॥
३७. षभिः कुलकम् । हे कुमारपाल नृप इणपरीति शीघ्रादित्वात् अनया रीत्या अनेन भण्यमानप्रकारेण आत्मानं शिक्षय संबोधय । रीतिमेव आह । अस्मान् कोपि जनः निन्दतु जुगुप्सताम् । अस्मान् कोपि जनः वर्णयतु श्लाघताम् । परं वयं नापि कमपि निन्दामः नापि कमपि वर्णयामः । निन्दितरि द्वेषं स्तोतरि रागं च न कुर्म इत्यर्थः ॥
३८. मया भवगहनं मोक्तव्यम् इत्येषा मयि स्थिरा अविनश्वरा बुद्धिः । तथा सुगुरुः मां मस्तके हस्तयतु प्रसन्नमना मच्छिरसि हस्तं निदधातु । ततश्च अहम् आत्मनः शुद्धिं नैर्मल्यं प्राप्नोमि ।
३९. अस्माभिः केनापि विधिवशेन शुभकर्मयोगेन एतद् मनुजत्वं प्राप्तम् । तथा मत् मत्सकाशाद् मम वा शिवम् अदूरे निकटे एव भवतु। मत् मम वा मिथ्यात्वं व्रजतु। मिथ्यात्वविनाशेन निःश्रेयसं संजायताम् इत्यर्थः ॥