________________
[है. ८.४.३६२ ] अष्टमः सर्गः ।
२७५ "तं बोल्लिअइ जु सच्चु पर इमु धम्मक्खरु जाणि । ऍहों परमत्था एहु सिवु ऍह सुह-रयणहँ खाणि ॥ २८ ॥ एइ सुसावग ओइ मुणि पिच्छह तवहिँ तवाई।
आयहाँ जम्महों एहु फल नायइँ विसय-सुहाई ॥ २९ ॥ अपि यस्या अपि तस्या अपि नार्याः तद् हितं वचनम् अहिंसाप्रधानो धर्मः क्रियताम् इत्युपदेशः स्तोकं मितं कथ्यते यत् समस्तप्रकारैः करणकारणानुमितिरूपैः परिणमति रोचते ॥ कासु । जासु । तासु । " यत्तत्किभ्यो ङसो डासुर्न वा " [ ३५८ ] ॥ कहे । जहे । तहे । " स्त्रियां डहे" [ ३५९] ॥
२८. यद् वचः अहिंसादिकं सत्यम् अविसंवादि तत् परं केवलं कथ्यते । इति इदं धर्माक्षरं धर्मरहस्यं जानीहि अवगच्छ । तथा एष परमार्थः उत्तमार्थः । एतत् शिवं मङ्गलम् । एषा च सुखान्येव काम्यत्वाद् रत्नानि तेषां खनिः आकरः । यत् सत्यम् उच्यते इति सर्वत्रापि संबन्धः ॥ · । धुं । तं । जु । " यत्तदः स्यमोधैं त्रं" [ ३६० ] ॥ '. । इमु । " इदम इमुः क्लीबे" [३६१] ॥
एहो । एहु । एह । " एतदः स्त्रीपुंक्लीवे एह एहो एहु" [ ३६२ ] ॥
२९. एतान् सुश्रावकान् अमून मुनीन् पश्यत । किं पश्याम इत्याह । एते सुश्रावकाः अमी मुनयस्तपांसि एकासनकनिर्विकृतिकाचाम्लोपवासरूपाणि तप्यन्ते कुर्वन्ति । अथवा युक्तमेवैतद् यद् एते एवम् अनुतिष्ठन्ति । यतः अस्य जन्मनः परमपुरुषार्थसाधकस्य मानुषत्वस्य एतत्तपस्तपनरूपं फलं साध्यम् एतत्फलपरमपुरुषार्थहेतुत्वात् । न इमानि विषयसुखानि फलम् । परमपुरुषार्थविघातकत्वात् ॥ १० कथ्यते इदानीम्. २ BC °निर्वृकृति'.