SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ २७२ कुमारपालचरिते नाडिउ इड-पिङ्गल-पमुहाओ जाणेवाओ पवणेण रुद्धा। ताउ न जाणइ जो सव्वाओ जोगिअ-चरिअएँ चरइ सु मुद्धा ॥ २३ ॥ गयण-ढलन्त-सुधा-रस-निकहें अमिअ पिअन्तिहु जोगिअ-पन्तिहु। . ससहरु बम्भि धरन्तिहु कत्थ वि भउ नोप्पजइ जर-मरणत्तिहु ॥ २४ ॥ . ... २३. इडापिङ्गलाप्रमुखा नाड्यः शरीरे अनेकशिरासद्भावेपि त्रिकालज्ञानहेतुत्वेन प्रधानत्वाद् वामदक्षिणमध्यमा धमनयः पवनेन पार्थिवादिवायुपञ्चकेन रुद्धाः प्रत्येकं सार्धघटिकाद्वयं यावद् अवष्टब्धा ज्ञातव्याः । तथा चोक्तम् । नाडीमध्ये तथा भुक्तिः सार्धं तु घटिकाद्वयम् । घटिकार्धेन भवेद् भूतम् एवं वा लक्षयेद् बुधः ॥ एकैका नाडी सार्ध घटिकाद्वयं संततं वहति । तत्रापि पञ्चापि पार्थिवादिवायवः स्वस्वभुक्तिं भुञ्जते । सा च कियती भवति । पञ्चानामपि प्रत्येकं घटिकाधं भुक्तिर्भवति । भवन्ति च पश्च घटिकार्धानि सार्धघटिकाद्वये इति अस्यार्थः । ता इडाद्या नाडीः सर्वाः समस्ता यो न जानाति स पुरुषो योगिकचर्यया योगिनाम् आचारेण मुधा निरर्थकं चरति । नाडीपवनसंयोगपरिज्ञानविकलेन बहु क्लिश्यतापि योगः साधयितुं न शक्यते इति भावः ॥ ___ नाडिउ । पमुहाओ । जाणेवाओ । ताउ। सव्वाओ। "स्त्रियां जश्शसोरुदोत्" [ ३४८] ॥ जोगिअ-चरिअए । “ट ए" [३४९ ] । २४. गगनं ब्रह्मरन्ध्रम् दशमद्वारम् इति यावत् । तस्मात् ढलन्तेति तक्षादित्वात् [४.३९५] क्षरन् वहन सुधारसो यस्यां सा तथा । सा चासौं १ BD चरिए.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy