________________
[है० ८.४.३४७] अष्टमः सर्गः
विणसइ माणुसु विसयासत्तिं . डज्झइ तरु-गण जिम्ब दावग्गिण । विसु जिम्व विसय पमिल्लिउ दूरे अच्छह चित्तें जोअ-विलग्गेण ॥ २१ ॥ विसय म पसरु निरङ्कसु दिजउ लोअहों विसऍहिँ मणु कड्डिजइ । मणु थम्भेविणु पवणि निजोजहु मण-पवणिहिँ रुद्धहिँ सिज्झिज्जइ ॥ २२ ॥
२१. यथा दावाग्निना तरुगणा दह्यन्ते विनाश्यन्ते तथा विषयासक्तया मनोज्ञशब्दादिलाम्पट्येन कृत्वा मानुषो विनश्यति । तथा विषं यथा विषयान् दूरेण प्रमुच्य योगविलग्नेन समाधिलीनेन चित्तेन आध्वं तिष्ठत ॥
मण-सुद्धिएँ । विसयासत्तिं । दोवग्गिण । “ एं चेदुतः ” [ ३४३ ] ॥ एवम् उतोपि दृश्याः ॥ .. माणुसु । तरु-गण । विसु । विसय । “स्यम्-जश्शसां लुक्" [ ३४४ ] ॥
- २२. भो लोकाः निरङ्कुशं निरर्गलं यथा भवत्येवं विषयाणां प्रसरः युष्माभिः मा दायि । विषया निरुध्यन्ताम् इत्यर्थः । ननु विषयप्रसरदाने किं भविष्यति इत्याह । विषयैर्मनः कृष्यते । स्वस्मिन् सतृष्णं क्रियत इत्यर्थः । तर्हि किं कुर्म इत्याह । मनः स्तम्भित्वा नियम्य पवने इडापिङ्गलान्तर्वहमानवायौ नियुध्वम् । मनसा पवनम् अवष्टन्नीतेत्यर्थः । यतः मनःपवनयो रुद्धयोः मिथः अवष्टब्धयोः सिध्यते मुक्तीभूयते ॥ विसय । “ षष्ठयाः" [ ३४५ ] ॥ लोअहो । " आमन्व्ये जसो होः" [३४६] ॥ विसएहिं । मण-पवणिहिं । रुद्धहिं । " भिस्सुपोर्हि " [ ३४७ ] ॥