________________
२६८
कुमारपालचरिते केण वि जोग-पओगेंण कह वि हु घरि रुद्धे सव्वेहिँ वि वारिहिँ । जोअन्तहें वि निहेलण-नाहहु घर-सव्व-स्सु वि निजइ चोरेंहिं ॥ १६ ॥
मध्यमा सुषुम्णाख्याता सिद्धिनिर्वाणकारणम् इति । इडापिङ्गलामध्यम् अपास्य यदा आत्मा सुषुम्णाभ्यन्तरम् आसादयति तदा सर्वत्र समभावत्वाद् मुक्तिम् आप्नोतीत्यर्थः ॥ ___ इडा गङ्गेति विज्ञेया पिङ्गला यमुना नदी ।
मध्ये सरस्वती विद्यात् प्रयागः संगमो मतः ।। इति वाक्याद् गङ्गादीनाम् इडादिपर्यायत्वं बोद्धव्यम ॥ हंसु । सो। सो। मोक्खु । "सौ पुंस्योद्वा” [३३२]॥ पुंसीति किम् । भीतरु ॥ ..
१६. केनापि अनाख्येयेन योगप्रयोगेण बाह्यविनिवृत्तिरूपसमाधिविधानेन हेतुना कथमपि महता प्रयत्नेन सर्वैरपि आत्मनो बाह्यार्थ प्रति प्रवृत्तिहेतुत्वाद् द्वारैरिव द्वारैः । करणैरित्यर्थः । कृत्वा गृहे शरीरे रुद्धे नियन्त्रितेपि परं द्योतमानादपि जाग्रतोपि । सावधानादपीत्यर्थः । निहेलणेति देश्यो गृहे । तस्य नाथः आत्मा तस्माद् गृहस्य शरीरस्य सर्वस्वमपि तत्स्थात्मगतसमस्तज्ञानादिकमपि न तु स्तोकस्वं चौरैः रागादिभिर्नीयते गृह्यते । रागादियुक्तस्य तादृगपि ध्यानं न स्वार्थसंसिद्धये अलं भवतीति भावः । यत्र किल गृहे द्वाराणि स्थगितानि भवन्ति गृहपतिश्च जाग्रद् भवति तत्र नान्यचौरावकाशः । रागद्वेषादिचौरास्तु एवमपि प्रभवन्तीति ज्ञानादिरक्षणाय रागद्वेषादय एव हन्तव्या इति भावार्थः ॥
केण । पओगेण । “ एट्टि" [ ३३३] ॥ घरि । रुद्धे । “ ङिनेच" [ ३३४ ] ॥
१ BCD निहलणेति. २ D तत्स्वात्म.