________________
२४८
कुमारपालचरिते जिणउ कलिं अघ चिणिअंधुणिअ-सिरं सुणिअ-गुण-गणा थुणिआ इन्देहि वि जग-पुणेणी सुअ-देवी सयल-अघ-लुणणी ॥ ६९ ॥
सो हुणइ भप्प-मज्झे ख-पुप्फमुच्चेइ पङ्कयाइँ थले । तह उचिणेइ मोत्तुं सुअ-देविं महइ जो अन्नं ॥ ७० ॥
हरिहरादिकं ध्यायत । हरिहरादिध्यानम् अपहाय अर्हद्ध्यानपरा भवतेति भावः ॥
झाह । झाअह । होऊण । होअऊँण । “स्वराद् अनतो वा' [ २४०.].॥
६९. श्रुतगुणगणा सकलजनश्रवणगोचरप्राप्तवरप्रदानादिगुणनिचया इन्द्रैरपि आस्ताम् अन्यैः धुतशिरो यथेत्येवं स्तुता श्लाघिता जगतः, पवनी पावित्र्यजनिका सकलाघस्य लवनी विच्छेदिका श्रुतदेवी अघेन चितं स्फीतं कलिं कलहं जयतु । आश्रितम् अस्मादृशं निर्मत्सरं विदधात्वित्यर्थः ॥
__७०. स पुरुषो भस्ममध्ये जुहोति हवनं करोति । खपुष्पम् उच्चिनोति । तथा पङ्कजानि स्थले उच्चिनोति । यः श्रुतदेवीं मुक्त्वा अन्यां महति पूजयति काङ्गति वा । श्रुतदेवीतोन्यासां देवतानाम् आराधनं भस्महुतादिकल्पम् इत्यर्थः । .
__ जिणउ । चिणिअं । धुणिअ । सुणिअ । थुणिआ । पुणणी । लुणणी । हुणइ । “ चि-जि-श्रु-हु-स्तु-लू-पू-धूगां णो ह्रस्वश्च" [२४१] ॥ बाहुलकात् क्वचिद् वा । उच्चेइ उच्चिणेइ ।
१ B थुहिय. २ BC °पुलणी. ३ C भब्भ'. ४ D अहंदादिध्यान". ५ BC होइऊण; The Dhundhika has: एच्च क्त्वातुम्तव्य [III. 157 ॥ अत् । इ। होऊण । होइऊण ।.