________________
[है० ८.४.१६१ ] सप्तमः सर्गः ।
२३३
सोचिअ सोक्खमइच्छह पसमं उक्कसह अक्कसइ सग्गं । मोक्खं पि हु अणुवजह अईह न हु जो जुवइ - सङ्गं ॥ ६ ॥ तारुण्णे णिम्महिए अवञ्जसन्तेसु हाणिमक्खेसु । ही पच्चss वुड्डो विन पसमं काम - पच्छन्दी ॥ ७ ॥ णीणन्ति मित्त-भ रम्भन्ति सुअं वहुं पि पदअन्ति । णीकन्ति च गुरु-गेहिणिं पि काम-वस-परिअलिआ || ८ ||
अफुसिअं । दुइ । दुसइ । परइ । परीइ । अभमिअ । " भ्रमेष्टिरिटिल्लदुण्डुल ढण्डल - चकम्मे भम्मड भमड- भमाड-तल अण्ट - झण्ट झम्प - भुम-गुमफुम-फुस-दुम-दुस-परी-पराः " [ १६१ ] ॥
६. हु इति निश्चितं यो युवतिसङ्गं न गच्छति । रमणीं न सेवत इत्यर्थः । स एव सौख्यं गच्छति । प्रशमं गच्छति । स्वर्गं गच्छति । किंबहुना | मोक्षं चिदानन्दरूपपरमपदमपि गच्छति ॥
७.
तारुण्ये यौवने गते गलिते सति अक्षेषु इन्द्रियेषु च हानिं हासं गच्छसु प्राप्नुवत्सु सत्सु । हीति खेदे । वृद्धोपि जराजर्जरिततनुः पुरुषोपि कामं विषयाभिलाषं गच्छति याति इत्येवंशीलः कामगामी सन् न प्रशमं गच्छति । तादृशोपि कामविह्वलो न परं हितम् आचरतीत्यर्थः ॥
८. कामवशगताः मन्मथपारतन्त्र्यप्राप्ता मित्रभार्यां गच्छन्ति । सुतां स्वपुत्रिकां गच्छन्ति । वधूं स्नुषामपि गच्छन्ति । किं बहुना । गुरोः पितृकल्पस्यात्मोपाध्यायस्य गेहिनीं कलत्रमपि गच्छन्ति च । लोकधर्मविरुद्धं तस्यास्तस्याः सीमन्तिन्याः सेवनं कुर्वन्तीत्यर्थः ॥
०
१ B सोक्खं. २ B° चक्कम्मभम्मडतलअंट°, omitting भमड and भमाड; C° चक्क मभम्मडभमाडतलअंट' omitting भमड. ३ C परहितं. ४ B तस्या for तस्मास्तस्याः.