________________
२२२
कुमारपालचरिते काम-गह-भमडिएहिं भमाडिओ भम्मडेइ को न भवे । गय-काम-झण्टणो पुण तलअण्टइ सिद्ध-भूमीसु ॥३॥ ढण्ढल्लिअ-भुमयं भुमिअ-धणू जग-झम्पणो गुमिअ-आणो । जं न फुमावइ मयणो अफुसिअ-बुद्धी खु सो धन्नो ॥४॥ ढुमइ पुरे ढुसइ वणे परइ थलीसुं परीइ जल-मज्झे । . अभमिअ-चित्तो इत्थीहि णीइ धन्नो पसम-रजं ॥ ५ ॥
३. कामग्रहेण भ्रान्तैः भ्रान्तिम् आप्तैर्नीलपटादिदर्शनिकैः कृत्वा भ्रान्तः मोहम् उपगतः को भवे न भ्राम्यति अपि तु तादृशः प्राणी सर्वोपि संसारे सरतीत्यर्थः । गतं कामभ्रमणं मन्मथमोहो. यस्य स तथाविधः पुनः सिद्धभूमिषु सिद्धक्षेत्रेषु भ्रमति गच्छति ॥
४. भ्रान्तनु चलितनेत्रोर्ध्वरोमपद्धति यथा भवति एवं भ्रमितं विश्ववशीकरणाय चलितं धनुर्येन स तथा । अत. एव जगद्भमणः भुवनभ्रान्तिकारको भ्रमिताज्ञश्च सर्वत्र विलसितशासनो मदनो यं कमपि पुरुषं न भ्रमयति न चालयति सः अभ्रमितबुद्धिः निश्चलमतिः खु निश्चितं धन्यः प्रशस्यः ।।
५. स्त्रीभिरभ्रान्तचित्तः अमूढमनाः सन् पुरे भ्राम्यति वने भ्राम्यति स्थलीषु भ्राम्यति जलमध्ये च भ्राम्यति । शीलप्रभावाद् कापि देवतादिकृतं स्खलितं संपद्यत इत्यर्थः । किं बहुना । सकलानर्थहेतुस्त्रीव्यावृत्तमनस्त्वाद् वनं परमपदं लब्ध्वा धन्यः प्रशमराज्यं गच्छति । निरुपमसुखहेतूपशमैकतानः संपद्यत इति भावः ॥ ..
टिसिटिलन्ता । ढुण्ढुल्लन्ति । चक्कम्मविआ। भमडिएहिं । भमाडिओ । भम्मडेइ। झण्टणो । तलअण्टइ । ढण्ढल्लिअ । भुमिअ । झम्पणो । गुमिअ । फुमावइ ।
१ B तण'; C तणअंतइ; D तणअंटइ. २ C अच्छीहि. ३ D संसारे संसर. ४ B om. स्थलीषु नाम्यति.