________________
२१३
कुमारपालचरिते · तिहुअण-जस-ओअन्दण-रिउ-अच्छेदण-चमूइ पहु तुज्झ । मलिऊण बलं तिउरीसरस्स परिहट्टिओ माणो ॥ ८५ ॥ चड्डिअ-नका मड्डिअ-महा-तडा खड्डिआखिलारामा । पन्नाडिअ-द्रह-पङ्का तुज्झ चमूए कया रेवा ॥ ८६ ॥ पय-मढिअ-पंसु-मसिणे चुलुचुलैमाणाणिलेण कय-फन्दे । रेवा-तड-लय-गहणे निव्वलिओ तुह बल-निवेसो ॥ ८७ ॥
८५. हे प्रभो तव । त्रिभुवनयशस आच्छेदमा शत्रुभ्यो हठाद् ग्राहिका अत एव रिपूणाम् आच्छेदना ध्वंसिका या चमूः सेना तया त्रिपुरीश्वरस्य चेदिनगरीशस्य बलं सैन्यं मृदित्वा मानो मृदितः भग्नः ॥
उद्दालिआ । ओअन्दण । अच्छेदण । “आङा ओअन्दोद्दालौ" [१२५]॥
८६. मृदितनका पिष्टजलचरजीवविशेषा मृदितमहातटा विदारितबृहत्कूला मृदिताखिलारामा भग्नानेकोद्याना मृदितहदपङ्का विलोडितान्त. स्थितनदकर्दमा रेवा नर्मदा तव चम्वा कृता ॥...
८७. पादाभ्यां मृदितो यः पांसुस्तद्वद् मसृणे कोमले स्पन्दमानानिलेन किंचिद्वहद्वातेन कृत्वा कृतस्पन्दे विहितमनाकम्पे रेवातटलतागहने तव बलनिवेशः स्कन्धावारो निष्पन्नः संजातः॥
मलिऊण । परिहडिओ । चड्डिअ । मड्डिअ । खड्डिों । पन्नाडिअ । मढिअ । " मृदो मल-मढ-परिहट्ट-खड्ड-चड्डु-मड्ड-पन्नाडाः" [१२६] ॥ चुलुचुलेमाण । फन्दे । “ स्पन्देश्चलुचुलः" [१२७] ॥
१ BC दलं. २ BC चुलुचुलु'. ३०°वारोपि. ४ B खडिअ. ५B चुलचुल'; C चुलुचलु.