________________
२१०
कुमारपालचरिते तुज्झ पहल्लिर-सिविरे घुम्माविअ-दंसमाण-कुम्मम्मि । दिवे वि दसण्ण-वई विवट्टमाणो भए मरही ॥ ८॥ अणकढिअ-दुद्ध-सुइ-जस पयाव-धम्मट्टिआरि-जस-कुसुम । तुह गण्ठिअ-चूहेणं विरोलिओ तस्स पुर-जलही ।। ८१ ।।
बाहुलकाद् अत्र कप्रत्ययाभावः । भयघूर्णितं साध्वसचकितं कन्यकुब्जेशम् अकार्षीत् ॥
अखुट्टिअ । उक्खुडिअ । अतुट्टिअं। अखुडिअ । अतोडिअ । अतुडिअ। अणिलुक्कन्त । लुक्किअ । उल्लरिअ । उल्लुकिअ । “ तुडेस्तोड-तुद्व-खुट्ट-खुडोक्खुडोल्लुक-णिलुक्क-लुक्कोल्लूराः ” [ ११६ ] ॥
८०. हे भूपते तव घुर्णितश्चलितो विवर्तमानः धराधस्तिष्ठन् कूर्मों येन स तथा तस्मिन् घूर्णयित विचरणशीलं यच्छिबिरं स्कन्धावारस्तस्मिन् दृष्टेपि । आस्तां युध्यमाने । दशार्णपतिः भये विवर्तमानः सन् अम्रियत प्राणान् अमुचत् ॥ .
घोलन्ती । घुलिअं। पहल्लिर । घुम्माविअ। “घूणों घुल-घोल-घुम्म-पहल्लाः" [ ११७] ॥ ढंसमाण । विवट्टमाणो । " विवृतेसः " [११८] ॥
८१. हे अकथितदुग्धशुचियशः अग्न्यनावर्तितक्षीरनिर्मलकीर्ते प्रतापधर्मकथितारियशःकुसुम तेजस्तापग्लापितरिपुकीर्तिपुष्प तव प्रथितव्यूहेन दृब्धेन सेनानिवेशेन का तस्य दशार्णपतेः पुरमेव अतिविस्तीर्णत्वात् जलधिः मथितः रत्नाश्वगजादिलिप्सया . विलोडितः। तन्नगरं विलुण्टितम् इत्यर्थः ॥
अणकढिअ । अहिअ । " कथेरट्टः" [११९॥ गण्ठिअ । “ ग्रन्थो गण्ठः "[ १२०] ॥
१D लुण्टितम् .