SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ [है. ८.४.८०.].. षष्ठः सर्गः । १९९ अह महमहन्त-णीहरिअ-मद-जले सिन्धुरम्मि चडिऊण । ठाणाओं नीलिओ कुडणाहिवो नीसरन्त-बलो ॥ ४९ ॥ वरहाडिआ गढाओ रण-धाडिअ-रक्खणा भडा तस्स । जग्गिअ-खग्गा रण-जागरा य आअड्डिआ तत्तो ॥ ५० ॥ मुश्चन्तः । किम् अपरे मृता इदानीम् इत्यादि व्याहरन्तो जल्पन्तः । सत्यव्याहरणाः स्ववचनप्रतिपन्नार्थनिर्वाहकत्वाद् अवितथभाषकाः । प्रसृत्वराः सत्वरं गमनशीला ये तुरंगमाः प्रसृमराश्च य इभाः कुञ्जरास्तेषु आरूढाः स्थिताः । प्रसृताः परबलमनु प्रचलिताश्च ॥ पोकणा । कोकन्ता । वाहरणाः । “ व्याहगेः कोक-पोक्को" [७६] ॥ उव्वेलिर । पयालिर । पसरिआ । “प्रसरेः पयल्लोवेलो" [७७ ] ॥ ४९. अथ युष्मद्योधप्रसरणानन्तरं प्रसरगन्धं निःसृतं गण्डादिस्थानसप्तकाद् निर्गतं मदजलं यस्य स तथा तस्मिन् सिन्धुरे कुञ्जरे आरुह्य स्थानात् स्वपत्तनमध्याद् निःसरत् पृष्ठतो निर्गच्छद् बलं सैन्यं यस्य स तथा कुडणाधिपो मल्लिकार्जुनांख्यनृपः निसृतः ॥ महमहन्त । "महमहो गन्धे" [७८] ॥ ५०. गढेति देश्यो दुर्गे । तस्माद् निमृताः। रणान्निःसृतानां कातरतया संग्रामाङ्गणानिर्गतानां रक्षणाः तद्व्याघातपरापरसुभटनिवारकत्वेन त्रायकाः। जागरिताः शत्रुप्रहाराय कोशेभ्यो निःकाशिता इत्यर्थः । खना यैस्ते तथा । जाग्रतीत्यचि जागराः रणाय जागराः सावधानाश्च तस्य कुणाधशिस्य भटास्ततः दुर्गनिर्गमानन्तरं व्यापृताः परस्परं युद्धाय प्रवृत्ताः॥ णीहरिअ । नीलिओ। नीसरन्त । वरहाडिआ । धाडिअ । " निःसरेीहर-नील-धाड-वरहाडाः " [७९]॥ जग्गिअ । जागरा । " जाग्रेर्जग्गः" [८.] ॥ १B0 पयल्लोवेल्लो.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy