SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ [ है ० ८.४.६४.] षष्ठः सर्गः । १९७ • कम्मन्तमत्त-मनिअ-रिउणो गुललन्त-सामिणो विजये । दाउं वसुमझरन्ता पहु-आदेसं च झूरन्ता ॥ ४४ ॥ जुद्धेण भरावन्ता राम-कहं भारहं भलावन्ता । निअ-कुल-कम लढन्ता सुमरन्ता खत्तिआचारं ॥ ४५ ॥ वीर-चरणं सरन्ता पयरन्ता सामिणो पसायं च । बावण्ण-वीर-कह-विम्हरावणा वइर-पम्हुहणा ॥ ४६ ॥ फलकाः खेटकाश्च येषां ते तथा । दल इति देश्यः सैन्यार्थे । रिपुसैन्ये निःपतनम् आच्छोटनं वा कुर्वन्तः ॥ ४४. क्षुरं कुर्वाणा एव क्षुरकुर्वाणमात्राणि । अत्र च क्षुरशब्देन क्षुरविधेयं शिरस्तुण्डमुण्डनादि कर्मोच्यते । अतो नापितमात्राणि मनिता रिपवो यैस्ते तथा । स्वामिनः स्वप्रभोविजये विजयनिमित्तं स्वकुलदेवतादि प्रति चाटु कुर्वाणाः । वसु विभूतिं दत्त्वा वर्णनापरबन्दिजनाय वितीर्य अस्मरन्तः दानशौण्डत्वाद् अजानानाः प्रभ्वादेशं स्वामिप्रदत्तशिक्षां च स्मरन्तः मनसि धारयन्तः ॥ ४५. युद्धेन तादृक्संग्रामेण कृत्वा रामकथां रामरावणयुद्धवृत्तान्तं स्मरयन्तो ज्ञापयन्तः । भारतं च कौरवपाण्डवयुद्धप्रतिपादकग्रन्थविशेषम् । कौरवपाण्डवयुद्धमित्यर्थः । स्मरयन्तः निजकुलक्रमं रणाङ्गणभङ्गपराङ्मुखवपूर्वपुरुषसमाचारं स्मरन्तः। क्षत्रियाचारं नष्टपृष्ठानुसरणपतितप्रहारपरिहाररूपं वीरव्रतं स्मरन्तः ॥ ४६. वीरवरणम् अनेन सह मया योद्धव्यमिति प्राकृतप्रतिसुभटयुद्धाङ्गीकारं स्मरन्तः अवबुध्यमानाः स्वामिनः प्रसादं च स्मरन्तः । द्विपञ्चाशद्वीरकथायाः शूद्रकांदिवीरचरित्रस्य विस्मरणाः तत्कथां विस्मरतो लोकान् प्रयुञ्जानाः । वैरस्य स्मरणाः एतैः सह अस्मद्भर्तुर्विरोध इति स्मर्तारः ॥ ..BD °मंत.° २ B सरा.° ३ BC शूद्रकावीरादिचरि'.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy