________________
[है. ८.४.६०.] षष्ठः सर्गः
१९५ -सग्गे वि हणिअ-विहवा असुणिअ-दोसा तिलोअ-सिरि-धुवणी।
कुमर-नरिन्द-सहा सा धुणिआरि-मणोरहा हुआ ॥ ३९ ॥ हुन्ताणन्दो अहुवन्त-संसओ निवइमुब्भुअन्त-मई । पहवन्तो अपरिहवो विण्णविही संधिविग्गहिओ ॥ ४० ॥ देव विवक्खीहुन्तो णिव्वडिअ-बलेण सो पहुप्पन्तो । हूओ कुङ्कुण-नाहो जहा तहा कुणसु अवहाणं ॥ ४१ ॥
३९. स्वर्गेपि । आस्तां मर्त्यलोके । श्रुतविभवा विख्यातसमृद्धिः अश्नुतदोषा स्वपरदेशानाकर्णितास्थितिः । त्रैलोक्यश्रीधूयते स्ववैभवेन अभिभूयते अनयेति करणे अनटि त्रैलोक्यश्रीधवनी सा प्राग्व्यावर्णितस्वरूपा“ते लुग् वा" [हे० ३.२] इति कुमारपालेत्यत्र उत्तरपदलोपे कुमारः । स चासौ नरेन्द्रश्च तस्य सभा धुतारिमनोरथा विष्वगवस्थितप्रासनिविंशशक्तिशूलचक्राद्यस्त्रकलितानेकसुभटविसंकटत्वात् परास्तप्रत्यर्थिसार्थविरूपकाभिप्राया भूता संजाता ॥
हणिअ । असुणिअ । " श्रुटेर्हणः" [ ५८ ] ॥ ..धुवणी । धुणिअ । “धूगेधुवः " [ ५९] ॥ • ४०. भवदानन्दः नृपाग्रतोऽभिप्रेतनिवेदनात् संपद्यमानप्रमोदः । अभवत्संशयः विज्ञातस्वपरसैन्यवृत्तान्तत्वाद् अविद्यमानप्रतिपाद्य'विषयसंदेहः । उद्भवन्मतिः सप्रतिभत्वाद् उल्लसद्बुद्धिः । प्रभवन स्ववचनचातुर्येण इतरविज्ञपकेभ्यः समर्थः संजायमानः । अपरिभवः कुत्रापि असंपन्नतिरस्कारः । सांधिविग्रहिकः संधानविग्रहविनियुक्तप्रधानपुरुषः व्यजिज्ञपत् वक्ष्यमाणं न्यवीविदत् ॥'
हूआ । होन्त । अहुवन्त । अपरिहवो । “ भुवेर्हो हुव-हवाः ” [६०] ।। क्वचिद् अन्यदपि । उन्मुअन्त ॥
४१. विज्ञप्तिकामेव गाथाषषष्टया आह । हे देव महाराज