________________
१९२
कुमारपालचरिते अणकम्पिर-कर-वलिअ-त्थाले आरोविउं अदोलि-सिहं । रतोलिर-ताडका वर-विलयारत्ति काही ॥ ३२॥ जण-रञ्जणेहि राविउमुव्वीसं तत्थ पणमिर-निवेहि ।
परिवाडिअञ्जलीहिं खे घडिआ कमल-कोस व्व ॥ ३३ ॥ श्रीकामकस्तस्य श्रियं प्रकाशयन् उमाकामकश्रियं प्रकाशयन् । संप्रत्यपि स्वविभूत्या माधवपार्वतीपतिलक्ष्मी प्रकटयन्नित्यर्थः । कम्पिता अभीष्टकामिनाम् अर्धाक्षनिरीक्षणार्थ चालिता भ्रुवो यकाभिस्तास्तथा ताभिर्वनिताभी राजा कुमारपालनृपः परिवृतः स्वस्वकृत्यकरणाय उपसृतः ॥ णिहुवय । कामय । “ कमेणिहुवः " [ ४४ ] ॥ णुव्वन्तो । पयासन्तो । “ प्रकाशेणुव्वः ".[ ४५] ॥
३२. अकम्प्रौ अकम्पनशीलौ । निश्चलावित्यर्थः । यौ करौ हस्तौ तयोरारोपितं धृतं यत् स्थालं रत्नखचितकाञ्चनपात्रं तस्मिन् आरोप्य संस्थाप्य आरत्रिकं नीराजनाय दीपकमण्डलम् । न दोलयतीति ग्रहादिभ्यो णिनि अदोलिनी स्थिरा शिखा कलिका यस्य तत्तथा तद् दोलिनौ लीलावशात् चलनशीलौ ताडकौ कुण्डले यस्याः सा तथा । वरवनिता वारविलासिनी अकार्षीत् । उदतारयदित्यर्थः ॥
विच्छोलिअ । अणकम्पिर । “कम्पेर्विच्छोलः " [ ४६] ॥
वलिअ । आरोविउ । “ आरोपेलः " [ ४७] ॥ - अदोलि । रङ्खोलिर । " दोले रङ्खोलः " [ ४८] ॥
३३. जनरञ्जनैः नीतिशालितया लोकावर्जकैः प्रणम्रनृपैः घटिताअलिभिः योजितैः करसंपुटैः कृत्वा तस्यां कनकमण्डपिकायां नृपं कुमारपालनृनाथं रञ्जयितुम् आत्मनि सानुरागं कर्तुं खे शीर्षोपरिदेशे कमलकोशा इव कमलकुड्मलानीव घटिता विरचिताः॥ ... रञ्जणेहि । राविउं । " रञ्जे रावः " [४९] ॥ परिवाडिअ । घडिआ। “ घटेः परिवाडः " [ ५० ] ॥