________________
[है. ८.४.३५] षष्ठः सर्गः ।
१८९ उन्नामिअ-भुमयाए चण्डारे पाहुडाइँ पेण्डविरो। नरवइ-पट्ठविआई देवय-पट्टाविआई च ॥ २५ ॥ वोकन्त-महामञ्चो निवो अवुकन्त-पणइ-मण्डलिओ ।
विण्णत्ति-दिन-कण्णो अहिडिओ कणय-मण्डविरं ॥२६॥ उत्तारितम् इति यावत् । नेवत्थणमिति देश्यः । निरुञ्छनं यत्र नमने तत्तथा । सम्राट्स्वान्ततोषाय विहितोत्तरीयचेलस्फोरणम् इति यावत् । उन्नमितकरपुटम् ऊर्वीकृत्य योजितपाणिसंपुटं च यथा भवति एवम् उन्नमिताक्षान् भयादरपरीतचेतस्त्वाद् विस्फारितक्षणान् नमतो नृपान् उन्नमिताक्षं तद्भक्तथा प्रसन्नतया कीदृशोयम् इति ज्ञातुं विस्तारितनेत्रं शनैर्मन्दम् । लीलयेति यावत् । ईक्षमाणः ॥ गुलुगुञ्छिअच्छीत्यत्र समासान्तविधेरनित्यत्वाद् न समासान्तः ॥
२५. नरपतिभिः कुङ्कणमालवकदेशादिदेशभूपतिभिः प्रस्थापितानि मनःप्रसादनाय मुत्कलितानि देवताप्रस्थापितानि मन्त्रादिवशीकृतदेवप्रेषितानि च प्राभृतानि ढौकनानि उन्नमितभ्रुवा । भ्रूक्षेपेण कृत्वेत्यर्थः । भाण्डागारे प्रस्थापयिता न्यसनशीलः ॥
२६. विज्ञपयन्तः कार्य निवेदयन्तो महामात्या यस्य स तथा । विज्ञपंयन्तः प्रणयिनः प्रीतियुक्ता मण्डलिकाः कतिपयदेशस्वामिनृपा यस्य स तथा । विज्ञप्तौ महामन्त्रिमण्डलिककार्याकर्णने दत्तो वितीर्णः कर्णो येन स तथा ॥ दाविअ । दंसिअ । दक्खविअ । दरिसिए । “दृशेर्दाव-दस-दक्खवाः"[३२]॥ उग्गिअ । उग्घाडिअ । “ उद्धटेरुग्गः " [३३] ॥ ससिह । “ स्पृहः सिहः” [ ३४ ] ॥ संभाविओ । आसचिओ । “ संभावेरासङ्घः" [ ३५ ] ॥ ..
१ निरूछनं. २ BD °स्फेरण'; C °स्फुरण'. ३ BC विज्ञपितो. :