________________
१८८
कुमारपालचरिते
अह दोवारिअ - दाविअ-नरवइ - दंसिअ - अणेग पाहुडओ । आभरण-कन्ति-दक्खविअ-सुरघणू दरिसिभ गई || २२ ॥ उदउग्गअ-रवि-तेओ उग्घाडिअ - ससिंह - जण - मणाणन्दो | संभावि उविन्दो इन्दो आसंघिओ अह वा ॥ २३ ॥ उल्लालिअ-णेवत्थणमुत्थंघिअ - कर- पुढं नमन्त - निवे । गुलुगुञ्छिअच्छि उप्पेलिअच्छिणो सणिअमिक्खन्तो ॥ २४
उद्धूलिअ । गुण्ठन्तो । “ उद्भूलेर्गुण्ठः ” [२९] ॥
ण्ट-तमाडौ”[३०]।।
भामिआहि । तालिअण्टिर । तमाडन्तो । "भ्रमेस्तालिअण्टनासविअ । हारविअ । विउडिअ । विप्पगालिअ । नासिअ । पलावणो । " नशेर्विउड-न इ-नासव-हारव - विप्पगाल - पलावा: [३.१] ॥
""
२२-२६. पञ्चभिः कुलकम् । [अथ ] नृपः कुमारपालनरपतिः कनकमण्डपिकां सुवर्णनिर्मितह्रस्वमण्डपम् अधिष्ठितः अध्यासीनः । कथंभूतोसौ इत्याह । दौवारिकेण दर्शिता निवेदिता ये नरपतयस्तैर्दर्शितानि पुरो धरणात् प्रत्यक्षीकारितानि [ अनेकानि ] प्राभृतानि सुवर्णरत्नादिढौकनानि यस्य स तथा । आभरणानाम् उत्तमाङ्गश्रवणभुजादिदेशसंस्थकोटीरकुण्डलकेयूराद्यलंकाराणां कान्त्या दर्शितं जनानां प्रत्यक्षं विधापितं सुरधनुर्येन स तथा । दर्शिता साक्षात्कारिता इभगतिः गजपदन्यासो येन स तथा । हस्तिलीलया गच्छन्नित्यर्थः ॥
२३. उदद्ये उद्घटितं निःशेषाशिष्टवैरिवारशिक्षणात् सर्वत्र उल्लासितं विवत् तेजो येन स तथा । उद्घटितो विस्तारितः सस्पृहा धनाद्यभिलाषुका ये जनास्तेषां मनांसि तेषाम् आनन्दः समीहितवसुदानात् प्रमोदो येन स तथा । एवंविधः सन् उपेन्द्रः कृष्णः संभावितः ऊहितः । वेति पक्षान्तरे । इन्द्रो वा संभावितः ॥
२४. उन्नभितम् ऊर्ध्वकृत्य एकपार्श्वाद् अपरपार्श्व नीतम् ।