________________
१७०६०
कुमारपालचरिते होइजइ फलिणी-कुसुमेहि लहिजेज केहि नच्छि-सुहं । केहि न लहिज्ज हरिसो जह दीसइ वुच्चइ तहेअ ॥ ८६ ॥ इअ राया उजाणं तं कासी नयण-गोअरं सव्वं ।
काही सउहे गमणं संझा-कम्मं च काहीअ ॥ ८७ ॥ .. उत्पद्यते तदा कथम् अनङ्गो जयति सर्वोत्कर्षेण वर्तते । पुंनागपुष्पादिभिरेव पुष्पशरः सर्व स्ववशम् आधत्त इति भावः । । _ विहसेइ। विहसइ । हसउ । हसेउ । विहसन्त । विहसेन्त । “ वर्तमानपञ्चमीशतृषु वा" [१५८] इति एर्वा ॥ क्वचिन्न । जयइ॥ क्वचिद् आत्वमपि । सुणाउ। . विहसेज । विहसेजा । " जाजे" [१५९ ] इति ए॥
८६. भूयते उत्पद्यते फलिनीकुसुमैः । तथा तैः कृत्वा कैर्न अक्षिसुखं लभ्येत कैश्च न हर्षो लभ्येत । अपि तु सर्वैः फुल्लदक्षैः स. हर्षैश्च भूयत इति यावत् । ननु न भविष्यत्येवम् इत्याह । यथा दृश्यते तथैव उच्यते । स्वानुभूतमेव भण्यत इति भावः ॥ ... होईअइ । होइजइ । लहिजेज । " ईअ-इजौ क्यस्य ” [१६०] ॥
बाहुलकात् क्वचित् क्योपि विभाषया । लहिज ॥ -- दीसइ । वुच्चइ । “ दृशिवचेर्डीसडुच्चम् ' [ १६१] इति क्यस्य डीसडुचौ।
८७. अथ उद्यानवर्णनम् उपसंहर्तुम् आह । इति पूर्वोत्तरीत्या तत् शासनदेवताप्रसादप्रादुर्भूतसर्वर्तुकपुष्पादिसमृद्धिसंपन्नम् उद्यानं राजा श्रीकुमारपालदेवः सर्वम् अखिलं नयनगोचरं चकार । ददशेत्यर्थः । ततः सौधे गमनम् अकार्षीत् । तत्र च संध्याकर्म : देवपूजादिकं च अकार्षीत् ॥ - कासी। काही। काहीअ । “सी ही हीअभूतार्थस्य" [१६२] इति भूतार्थविहिताद्यतन्यादेः सी ही हीअ ।
१D आरामिकोक्त. २ D पालभूपालः.