________________
१६२
कुमारपालचरिते वेवइ हसइ अ कुमुझं पवेवए विहसए अ कासं च ।। देव जलम्मि थलम्मि अ इह पेक्खसि पेक्खसे इत्थ ॥६४॥ न हससि न वोवहससे जइ ता भासेमि किं पि बन्नेमि । अमुणा सरेण हंसाण माणसं तं पि विम्हरिकं ।। ६५ ॥ बहु वनिउं न सकं जाई दीसन्ति सरय-चिन्धाई। चरिआइँ विप्फुरन्ते इदो अ हेमन्त-सिसिराण ॥ ६६ ॥ . ६४. देव कुमारपाल भूपाल इह जले कुमुदम् । जातावेकवचनम् । कुमुदानीत्यर्थः । एवम् अन्यत्रापि । वेपते वायुवशाच्चलति । हसति । चन्द्रचन्द्रिकया विकसतीत्यर्थः । त्वं प्रेक्षसे । तथा देव अत्र स्थले कासं कासकुसुमं च प्रवेपते विहसति च त्वं प्रेक्षसे ।
वेवइ हसई । पवेवए विहसए । "त्यादीनाम्" इति [१३९] इचेचौ ॥
६५. हे राजन् यदि त्वं न हससि जल्पाकोयम् इति न हास्य करोषि । न वा उपहससि अहो अस्य वर्णनाचार्तुयम् इति न विप्लवयसि तदा भापे भणामि किमपि किंचिच्च वर्णयामि श्लाघे । वर्णन मेवाह । अमुना परतो वर्तमानेन सरसा सहस्रलिङ्गाख्यसरोवरेण हंसानां तदपि सततस्वविलासास्पदत्वेन श्रेष्ठमपि मानसं देवसरो विस्मृतम् ॥ पेक्खसि पेक्खसे । हससि उवहससे । “द्वितीयस्य सि से" [१४०] ।।
६६. शरद्वर्णनम् उपसंहरन् हेमन्तशिशिरयोः सार्धेकविंशत्या गाथाभिर्वर्णनम् आह । यानि शरचिह्नानि धनात्ययलक्षणानि दृश्यन्ते वीक्ष्यन्ते तानि बहु प्रभूतं वर्णयितुं न शक्नोमि असंख्यत्वात् सामस्त्येन इलाधयितुं न पारयामि । तथा इतश्च अस्मिन् उद्यानप्रदेशे पुनः हेमन्तशिशिरयोश्चरितानि तत्कालप्रभावप्रभविष्णुकलकण्ठस्वरह्रासकुन्दलतादिप्रसवपुष्पफलादिलक्षणविलसितानि विस्फुरन्ति उज्जृम्भन्ते ।
१ D प्रेष्ठमपि. २ BCD स्फुरन्ति.