________________
कुमारपालचरिते कुङ्कुम-कलिआसुन्तो सुरहिस्स मिउस्स एन्त-पवणस्स । पसरो गिरिम्मि इह तह तरुम्मि सव्वं पि सुरहेइ ॥ ५४॥ फुल्ला मुणी इह तरू न मुणीउ तरूउ दूरगा भमरा ।। वाइ मुणीण तरूणं नव-परिमल-मासलो वाऊ ।। ५५ ॥ उद्दीविय दढ-मयरद्धयग्गिणो वाउणो फुरन्ति रया । मुणि-मालत्तो पङ्कय-मालाहिन्तो पराय-कणा ॥ ५६ ॥
एवंभूता गतिर्यस्या यासां वा तस्यास्ताभ्यो वा धेनोर्धेनुभ्यश्च शालि-. वनम् एतद् वयं रक्षामः तन्निवारणेन पालयामः । अत्र आरामिकेण स्वनियोग एव विज्ञप्तः ॥. - ५४. कुङ्कुमकलिकाभ्यः केसरकोरकसकाशाद् आयंश्चासौ पवनश्च तस्य अत एव सुरभेः मृदोः सुखस्पर्शस्यं प्रसरः उज्जृम्भणम् इह शरदि गिरौ तथा तरौ सर्वमपि उपत्यकाधित्यकाप्रस्थादि मूलपत्रपुष्पादि सुरभयति स्वगन्धवासेन एकतानतां नयति ॥
५५. इह शरदि मुनयः अगस्तयस्तरवः फुल्लाः पुष्पिताः । अतो न मुनेस्तरोः सकाशाद् दूरगा विरलाः । किं तु मकरन्दलोभात् समीपस्था इत्यर्थः । भ्रमराः। तथा मुनीनां तरूणां नवपरिमलमांसलः नूतनसौरभसमृद्धो वायुर्वाति ॥
माला कमल-सही हंस-बहू इत्यादीनि मुणीउ तरूउ मुणीण तरूणं इत्यन्तानि चोदाहरणानि “शेषेऽदन्तवत्'' [१२४] इत्येतद्वृत्त्यनुसारेण स्वयम् उपयुज्य परिभावनीयानि ॥ : ५६. उद्दीपितः वृद्धिं नीतः दृढो बलवान् मकरध्वज एव संतापकत्वाद् आग्निस्ते. तथा वायवः स्फुरन्ति सर्वतः परिभ्रमन्ति तथा उद्दीपितमकरध्वजाग्नेर्वायोः वायुं प्राप्य । वायुयोगाद् इति यावत् ।.
१ D यन् वहन् स चासौ पवनश्च. २ B वायुवोगोदिति.