________________
[है० ८.३.१२३] पञ्चमः सर्गः।
१५७ अखलिअ-परिमल-रिद्धिं पहिआ ददृण छत्त-वण्ण-तरुं । वच्चन्ति मोह-निदं मरण-सहिं भरिअ अप्प-वहुं ॥ ५० ॥ हाहाण समा हेढे तरूण सालीण गोविआ गन्ती । खे जन्तीणं मिलिआण सुर-वहूणं गई खलइ ॥ ५१ ॥ अलि-मालाहि सणाहेहिँ बाण-कुसुमेहि परिमल-गुरूहि । दिद्वेहि वि मुच्छिाइ दुहिणीहिं पन्थिअ-वहिं ॥ ५२ ॥ सारस-मालाहिन्तो सुग-मालाओ अ चडय-मालाउ । अखलिअ-गईउ धेणूउ रक्खिमो सालि-वणमेअं ॥ ५३॥ ५०. अस्खलितपरिमलऋद्धिं निरर्गलसौगन्ध्यसमृद्धिं सप्तपर्णतरुम् अयुक्छदवृक्षं दृष्ट्वा पथिका आत्मवधू स्वभार्या स्मृत्वा मरणसखीम् अचैतन्यादितत्कार्यकारित्वाद् वयस्यां मोहनिद्रां तमोगुणमयीं मूर्छानिद्रां व्रजन्ति आसादयन्ति । . ५१. तरूणाम् अधः अधस्तनभागे हाहा देवगायनस्तेन तेषां वा समा । निरुपमनिनादोपेतत्वात् । शालीनां गोपिका गायन्ती गानं कुर्वती खे यान्तीनां व्रजन्तीनां मिलितानां क्रीडार्थ समुदितानां सुरवधूनां गतिं स्खलयति निषेधयति । दिवि गच्छन्त्योप्सरसः अत्याश्चर्य गोपीगीतं श्रुत्वा तत्रैव तिष्ठन्तीत्यर्थः ॥ . ५२. अलिमालाभिः सनाथैः युक्तैः परिमलगुरुभिः सौरभाढ्यैः दृष्टैरपि बाणकुसुमैः असनप्रसूनैर्हेतुभूतैः दुःखिनीभिः स्मरज्वराभितापात् सकष्टाभिः । पन्थेन चरन्ति पान्थिकाः । पथिवत् पन्थशब्दोप्यस्ति । तेषां वध्वस्ताभिर्मूछर्यते मुह्यते ॥
५३. सारसा लक्ष्मणास्तेषां मालास्तस्यास्ताभ्यो वा । शुकाः कीरास्तेषां मालास्तस्यास्ताभ्यो वा। चटकाः कलविङ्कास्तेषां मालास्तस्यास्ताभ्यो वा । अस्खलिता अप्रतिहता । अनिवार्येति यावत् ।
१ BC सत्त.