________________
१५.६
कुमारपालचरिते
दो दो कुरुरा वे वे अ खञ्जणा नह-यले उअ भमन्ते । पण्णाइँ तिवण्णस्स य उअ तिण्णि वि जुण्ण-नीलाई ॥ ४७ ॥ उअ चउरो चत्तारो चत्तारि इमे नहम्मि उडन्ते । दंसे सारसे इअ मुद्धा दुहं वयंसीणं ॥ ४८ ॥ दुह नयणाण सुहदा उअ माला पङ्कयाण तासुं च । कमल-सही हंस-बहू अली बहू पिच्छ रममाणा ॥ ४९ ॥
४७. द्वौ द्वौ कुरुरौ उत्क्रोशाख्यपक्षिविशेषौ द्वौ द्वौ च खञ्जनौ खञ्जरीटौ नभस्तले उअ पश्य भ्राम्यतः । त्रिपर्णस्य च पलाशस्य त्रीण्यपि पर्णानि जीर्णान्यपि पुरातनप्रायाण्यपि नीलानि । समयमाहात्म्यात् हरितानि । सश्रीकाणीति यावत् । उअ पश्य सन्ति ।
दुवे । दोण्णि । वेण्णि । दो । दो। वे । वे । “ दुवे दोणि वेण्णि च जस्शसा” [१२० ] | दुणि । विण्णि इति पाठे तु " ह्रस्वः संयोगे ” [१. ८४ ] इति ह्रस्वः ॥
-
तिण्णि । "त्रेस्तिण्णिः ” [१२१] ॥
४८. मुग्धा अप्रगल्भा द्वयोर्वयस्ययोः सारसान् इति अनेन प्रकारेण दर्शयति । तमेवाह । चतुर इमान् सारसान् नभसि उअ पश्य । उडुयन्ते विचरन्ति ॥
चउरो । चत्तारो । चत्तारि । " चतुरश्वत्तारो चउरो चत्तारि ” [१२२] ॥
४९. द्वयोर्नयनयोः सुखदाः पङ्कजानां मालाः स्रजः उअ पश्य सन्ति । तासु च कमलसख्यः सहचारित्वाद् वयस्याः । हंसवधूः वरटा । अलिवधूः भ्रमरी । रममाणाः पश्य सन्ति ॥
दोण्हं । दोण्ह । “संख्याया आमो व्ह व्हं” [१२३] ॥