________________
[ है ० ८.३.११९]
पचमः सर्गः ।
इअ पउमावर - देवीइ पूअणे मालिणीउ जम्पन्ति 1 तीहिं दोहिं दुगुणिअ-वेहिं च सहीहि अन्नोनं ॥ ४५ ॥ सरय-समयम्मि एत्थ य मिहुण-सरूत्रेण पिच्छ विलसन्ति । देव दुवे सारसया दुण्णि सुगा वेण्णि हंसा य ॥ ४६ ॥
गजप्रियापादपप्रसूनानयनरूपव्यापारनिमित्तं यूयम् आदिशत भणत । अत्र च महाकुलके तथाचापिशब्दाः सखीं सखीं प्रति समुच्चयेद्योतक - त्वेन नियोक्तव्याः ॥
१५५
7
तथा अत्रैव च “युष्मदस्तं तुं तुवं "[९० ]इत्यादि “ सुपि” [११७] इत्यन्तसूत्राणां तं-तुं-तुवं-इत्यादि - अम्ह मम मह - मज्झ इत्यन्तानि उदाहरणानि युष्मदस्मदोः सर्वविभक्तिसंबन्धे स्पष्टान्येव । नवरं सुपि एत्वविकल्पम् इच्छन्त्येके । तन्मते तुवसु तुमसु इत्यादि । तुब्भस्य आत्वमपि इच्छत्यन्यः । तेन तुब्भासु । तुम्हासु । तुज्झासु । अम्हस्य आत्वमपीच्छत्यन्यः । तेन अम्हासु इति विशेषः ॥
तीहिं । “त्रेस्ती तृतीयादौ” [११८] ॥
दोहिं । वेहिं । “द्वेर्दो वे” [११९] ॥
४६. प्रावृडनन्तरं शरत्संपदं दर्शयन् आरामिकः कुमारपालनृपं विज्ञपयति । हे देव महाराज अत्र च अस्मिन् पुनः शरत्समये द्रौ सारसश्च सारसी च सारसौ । “ पुरुषः स्त्रिया " [ है ० ३.१] इति पुरुषशेषे । सारसौ लक्ष्मणौ । एवम् अग्रेपि । द्वौ शुकौ कीरौ द्वौ च हंसौ सितच्छदौ मिथुनस्वरूपेण स्त्रीपुंसयुग्मरूपेण पश्य विलसतः क्रीडां कुरुत: । द्वौ इति पश्येत्यपेक्षया द्वितीया । विलसत इत्यपेक्षया च प्रथमा । एवम् अग्रेपि पश्येत्यपेक्षया द्वितीया भ्राम्यतः उड्डयन्ते संन्तीति योगे प्रथमा ॥
१ B समुच्चयावद्याकत्वेन C समुच्चयावंघातकत्वेन. २ C त्रैस्तीस्तृ