________________
१४६
कुमारपालचरिते से चन्दणस्स तह मयनांभीए सिं च अगरु-कलिआण । कप्पूर-पारियोण य अहिअयरो मालई-गन्धो ॥ १३ ॥ चिश्वणिअ-तरूणेमाणेआण य कुसुम-दंसणे हरिसो। कह वि न माइ इमस्सेअस्स य आराम-लोअस्स ॥ १४ ॥ ताण ललिआण ठाणं तस्साणङ्गस्स लङ्गली-कुसुमं । . एआओ एत्ताहे एत्तो अ न एत्थ को लेइ ॥ १५ ॥ ..
.
उअ पश्य । तथा अत्र प्रावृषि एषां कुटजार्जुनसर्जानां वत्सकककुभशालाख्यद्रुमाणां परिमलः परिमिलितः पिण्डीभूतः । तद्गन्धवैविक्त्यं न ज्ञायत इत्यर्थः ॥
किं । " किमः किं" [ ८० ] ॥ १३. अस्माद् उपलभ्यमानात् तस्मात् पूर्वम् उपलब्धात् एतस्मात् आसन्नोपलभ्यमानाद् वा चन्दनात् । एषाम् अत्यासन्नोपलभ्यमानपत्तनादिनगराणां तेषां लोकदृष्टमलयाँदिदेशानां वा चन्दनात् । तथा अस्यास्तस्या एतस्या वा मृगनाभेः आसां तासां वा पुरां मृगनाभेः । आभ्यस्ताभ्य एताभ्यश्च अगुरुकलिकाभ्यः । एभ्यस्तेभ्य एतेभ्यश्च कर्पूरपारिजातेभ्यः । सामर्थ्यात् चन्दनादिगन्धेभ्य इत्यर्थः। मालत्या जातेर्गन्धः परिमलः अधिकतरः । प्रावृद्काले हि मालत्या अतिरुचिरप्रचुरतरसौरभ्यास्पदत्वात् ॥ से चन्दणस्स इत्यादिषु " क्वचिद् द्वितीयादेः" [ ३.१३४ ] इति पञ्चम्याः षष्ठी ॥ . १४. एषाम् एतेषां च चिश्चणिकातरूणाम् अम्लिकावृक्षाणां कुसुमदर्शने सति अस्य एतस्य आरामलोकस्य उद्यानजनस्य कथमपि केनापि प्रकारेण हर्षो न माति अतिवर्तते ॥ .. १५. तस्य अनङ्गस्य तेषां ललितानां विलसितानां स्थानं पदं
१ So BC. २ BD °पारयाण. ३ B wants °मानपत्त° up to गन्धेभ्यः in line 16. ४ CD °मलयजादि. ५ अभिवर्तते.