________________
[ है० ८.३.८४] पञ्चमः सर्गः।
१४७ एअम्मि वणोद्देसे ईअम्मि तहा अयम्मि ऊसलइ।.. इणमिणमो एस फुडं सालो जूही सिलिन्धं च ॥१६॥ कुडेयं दलइ तमेअं एसा सा जूहिआ महमहेइ ।
एसो सो कन्दलिओ वेणु-कुडङ्गो वि पडिसाहं ॥ १७ ॥ लागलीकुसुमं शारदीलताप्रसूनम् एतस्मात् [ एतस्मात् ] एतस्माच्च । सर्वसमीपवर्तिदेशाद् इत्यर्थः । अत्र उद्याने को न लाति । परिमलविकासिसौन्दोद्यावर्जितचेताः सर्वोपि एतद् गृह्णातीति भावः ।। - से। सिं । “वेदंतदेत"[८१] इत्यादिना इदम्तद्एतदां स्थाने ङस्अम्भ्यांसह यथासंख्यं सेसिमौ । पक्षे इमाण । एआण । इमस्स । एअस्स । ताण । तस्स ॥ ___एताहे । एत्तो। “वैतदो"। [८२] इति एतदो ङसेः स्थाने तो ताहे । पक्षे एआओ ॥ .... ...: एत्ताहे। एत्तो । एत्थ । “त्थे च तस्य लुक्' [८३] एतदः त्थे परे त्तो ताहे एतयोश्च परयोस्तस्य लुक् ॥
१६. एतस्मिन्नेतस्मिन् एतस्मिन् समीपवर्तिनि वनोद्देशे एष सालः अर्जुनः । एषा यूथी मागधीलता। एतत् सिलिन्धं च भूमिस्फोटः स्फुटम् उल्लसति पुष्पपत्रप्रवालादिभिर्वर्धते ॥ .
ईअम्मि। अयम्मि। “एरदी"[८४] इति एतदः एकारस्य ङयादेशे म्मौ अत्ईतौ । पक्षे एअम्मि ॥
१७. तद् एतत् पूर्वदृष्टम् अधुना अनुभूयमानं कुटजं दलति विकसति । एषा सा यूथिका महमहेइ ईति गन्धेन प्रसरति । सौरभ्येण सर्व व्याप्नोतीत्यर्थः । एष स वेणुकुडङ्गोपि वंशगहनमपि प्रतिशाखं सर्वशाखासु कन्दलितः संजातनवाङ्कुरः ॥ १B कुडलं. २ ० शिलिम्भ्रं. ३ BCD महमहेइत्ति for महमहेइ इति.