________________
कुमारपालचरिते इमिआ पाउस-लच्छी कहइ अयं सिरिफंलो वणे अस्सि ।। समए इमस्सिमलि-किङ्किणी-रवं काम-छत्तं व ॥७॥ उअ अस्स जम्बु-तरुणो इमस्स दाडिमि-दुमस्स य फलाई । एसु रमिजइ आहिं सुगीहि एहिं सुगेहिं च ॥ ८ ॥. इह उजाणे समए इमम्मि णं पिच्छ विहसियं नीवं ।
कुडयं च इमं णे अज्जुणे अ ताविच्छए अ इमे ॥ ९ ॥ वृक्षलतापत्रादिसंपदं वनगतां दर्शयन् विज्ञपयति । इमाभिः बहलदलाभिः सान्द्रपत्रपङ्क्तिभिः वल्लीभिः व्रततिभिः कृत्वा अयं वनोद्देशो. मनो हरति हृदयम् आवर्जयति ॥ - इमं । इमाहि । इमो । “ इदम इमः " [७२] । ____७. अस्मिन् समये सांप्रतम् अस्मिन् . वने अयं श्रीफलः बिल्वः अलयः सौरभ्यलोभलग्ना भृङ्गास्त एव तदाकारत्वात् किङ्किण्यः क्षुद्रघण्टिकास्तषां रवो यत्र तत् तथा एवंविधं कामच्छमिव । तेन कन्दर्पस्य सच्छायत्वात् । इति इयं प्रावृड्लक्ष्मीः कथयति सामर्थ्यात्स्तनयित्लुस्तनितैः प्रतिपादयति ॥ . ___ इमिआ । अयं । "पुंस्त्रियोः'[७३] । इति न वा अयं इमिआ। पक्षे इमो ॥
८. अस्य जम्बुतरोः अस्य दाडिमीद्रुमस्य च फलानि उअ पश्य । तथा एषु फलेषु आभिः शुकीभिः कीरीभिः एभिः शुकैश्च रम्यते परस्परं क्रीड्यते ॥
अस्ति । अस्स । “स्सिस्सयोरत्” [७४] । इमादेशोपि । इमस्सि । इमस्स।। बाहुलकाद् अन्यत्रापि । एसु । आहिं । एहिं ।।
९. अस्मिन् समये सांप्रतम् अस्मिन्नुद्याने इमं नीपं धाराकदस्वम् इमं च कुटजं च वत्सकाख्यवृक्षविशेषं विकसितं पुष्पितम् इमान् अर्जुनांश्च ककुभान् इमान् तापिच्छांश्च तमालान् । अर्थवशाद् वचनव्यत्ययः। इति विकसितान् पश्य ॥ १B रिसि; C रिस'. २ BC °लक्ष्मी.