________________
[है० ८.३.४९]
चतुर्थः सर्गः ।
१३९
पुं- सदो जास मणं जस्स य जल - केलि - काल-दुल्ललिओ । किस्सा तिस्सा जिस्सा सो जुवईए अणुसरेण ॥ ७४ ॥ कीसे तीसे जीसे पणालिआए पलुट्टिअं नीरं । की जीए ती विहिरं तं न जुअईए || ७५ ॥ are faar - लो काला विन वा अमच्च - लोगम्मि । कआ विन भू-लोए जल - जन्तं एरिसं आसि ॥ ७६ ॥
वर्तते सरोमाञ्चकञ्चुक्रिका । किं तु सर्वस्य शैत्यहर्षादिना अङ्गयष्टिः सपुलका अभूद् इति भावः ॥
७४. यस्य पुम्शब्दः धर्मादिपुरुषार्थासाधनात् पुमान् इति नाम. मात्रम् यस्य च मनः चित्तम् । सचेतन इत्यर्थः । जलकेलेः कालस्तत्र दुर्ललितः भोगवाञ्छातत्परः स कां यां तां युवतिम् अनुसरति । पञ्चशरशराघातभीतः स्त्रीमात्रस्यापि पृष्ठानुयायी भवतीति भावः । कचिद् द्वितीयादेः [ ३.१३४ ] इति द्वितीयायाः षष्ठी ॥
•
66
७५. कस्या यस्यास्तस्याः प्रणालिकायाः सकाशाद् यद् नीरं पर्यस्तं पतितं तत् कस्या यस्यास्तस्या अपि युक्त्याः न बहिरभूत् किं सर्वस्यास्तद् अङ्गसङ्गम् आपेत्यर्थः । " क्वचिद् द्वितीयादेः” [३.१३४] इति पञ्चम्याः षष्ठी । पूर्वार्धे यच्छन्दो ज्ञेयः ||
७६. कस्मिन्नपि काले न अहिलोके नागसद्मनि । कस्मिन्नपि काले नैव अमर्त्यलोके त्रिदशालये । कस्मिन्नपि काले न भूलोके पृथ्वीपृष्ठे जलयन्त्रम् ईदृशम् आसीत् । अवलोकनपरविश्वलोकालक्षितसततविश्वतोमुखोच्छलितशुचि सुरभ्यमृतधाराधोरणीवहनाद् नैतत्समं 'बभूव ॥
राया । " राज्ञः ” [४९ ] इति नलोपे अन्त्यस्य सौ आत्वं वा । पक्षे रायाणो ॥