________________
१३८
कुमारपालचरिते एअस्सि ठाणे जल-छणे इमस्सि हवन्ति नक्खङ्का । सव्वेसि अन्नेसि जुआण जुअईण य पयासा ॥ ७० ॥ सव्वाणं अन्नाण वि जुआण जुअईण एत्थ हलवोलो । न हु कास तास रम्मो केसिं तेसिं न देइ दिहिं ॥७१ ॥ कास वि तास सरिच्छा किंनर-नारीइ किंनरस्स तहा। . . गायन्ति इत्थ रमिरा वारिणि तरुणीउँ तरुणा य ॥ ७२ ॥ कस्स वि तस्स जुआणस्स काइ ताए अ एस्थ जुअईएं। . न हु दीसइ तणु-लट्ठी जा न सरोमञ्च-कञ्चइआ ॥७३॥
७०. एतस्मिन् स्थाने यन्त्रगृहरूपे अस्मिन् जलोक्षणे सति सर्वेषां सर्वासां यूनां युवतीनां संबन्धिनो नखाङ्का नखक्षतानि अन्येषाम् अन्यासां यूनां युवतीनां च प्रकाशाः. अङ्गरागापगमात् स्वपरप्रकटा भवन्ति ॥ ... ७१. अत्र जलकेलिकाले सर्वेषाम् अन्येषां यूनां सर्वासाम् अन्यासां युवतीनामपि संबन्धी । हलवोलो देश्यः कोलाहलार्थः । ततः कोलाहलः हु निश्चितं केषां तेषां न रम्यः काम्यः । किं तु सर्वेषां श्रोत्रपुरैः पेय इत्यर्थः । केषां तेषां यूनां कासां तासां युवतीनां न धृतिं ददाति किं तु सर्वेषां हृदयम् आह्लादयतीति भावः ॥ ____७२. तथा कस्या अपि तस्याः सर्वोत्कृष्टायाः किंनरनार्याः अमररमण्यास्तथा कस्यापि तस्य सर्वप्रसिद्धस्य किंनरस्य देवगायनस्य सदृक्षा रूपवेषनिनादादिना तुल्याः रन्थ्यो रन्तारश्च क्रीडापरास्तरुण्यस्तरुणाश्च अत्र धारागृहे वारिणि गायन्ति गानं कुर्वन्ति ॥ . ७३. कस्यापि तस्य यूनः कस्यास्तस्याश्च युवत्यास्तनुयष्टिः अत्र यन्त्रगृहे हु निश्चितं यत्तदोर्नित्यसंबन्धात् सा न दृश्यते या न रोमाञ्चः पुलकः स एव तनुव्यापकत्वात् कञ्चुकः सह रोमाञ्चकञ्चुकेन
१ BC तरुणीइ. २ BC जुअईण. ३ BC खु.