________________
१३७
[ है ० ८.३.४८] चतुर्थः सर्गः । -को वि जुआ सजुआणो अप्पणिआ सह पिअं जले नेउं । रूसविअप्पाणेणं अतोससी अप्पणइआ वि ॥६६॥ सव्ये अन्ने वि निवा खिवन्ति धारा-हरम्मि सव्वस्सि । सव्वत्थ त्थी-लोए सबम्मि जलं तहन्नम्मि ॥ ६७॥ अन्नत्थ कुन्तला अन्नस्सि कुसुमाइँ अन्नहिं हारा । पिच्छ मयच्छि-जणे सव्वहिं पि रहसेण जल-रमिरे ॥६८॥ काहिं जाहिं ताहिं इत्थीए रमइ नेस राय-वडू । . कीए जीए तीए वि विअड्डाए निहिय-चित्तो ॥६९ ॥ कोसलानां राज्ञः सकाशाद् मगधानां राज्ञः सविधे राज्ञा अराज्ञापि खु निश्चितं नीरस्य लहर्यः कल्लोला उच्छाल्यन्ते ।
६६. प्रियाम् अभीष्टां गणिकाम् आत्मना सह जले नीत्वा आत्मना रोषयित्वा सकोपां कृत्वा सयुवा तरुणमित्रपरिवृतः कोपि युवा आत्मनैव अतूतुषत् वचनवैचित्र्येण आवर्जयत् । अपिः एवार्थे ।
६७. सर्वस्मिन समस्ते धारागृहे सर्वस्मिन् स्त्रीलोके तथा सर्वस्मिन् अन्यत्र मित्रादिषु सर्वे अन्येपि पूर्वोक्तेभ्योऽपरेपि नृपा जलं क्षिपन्ति उच्छालयन्ति । • ६८. अन्यस्मिन् स्कन्धादिदेशे । विसंस्थुला इति भावः । कुन्तलाः केशपाशाः । अन्यस्मिन् कुसुमानि । अन्यस्मिन् हाराः । इति रंभसेन औत्सुक्येन जले रन्तरि रमणशीले सर्वस्मिन्नपि मृगाक्षिजने पश्य । इति ज्ञेयम् ॥
६९. कस्यां यस्यां तस्यामेव विदग्धायामेव कटाक्षादिन्यासनिपुणस्त्रियां निहितचित्तः न्यस्तमनाः सन् कस्यां यस्यां तस्याम् । अविदग्धस्त्रियाम् इत्यर्थः । एष पुरोवर्ती राजबटुः न रमते । अपिः एवार्थे ॥
१ B°न्यासे.