________________
१३६
कुमारपालचरिते परओ जदूण रण्णो परओ चेदीण राइणो तह य । राइम्मि अराअम्मि अ एगागारं जले कीला ॥ ६२॥ इह वारि-मजण-छणे राईणमराइणं च समभावो । रायं अराइणं तह कीलन्तं पिच्छ राईहिं ॥ ६३॥ राईहिन्तो राईसु जन्ति राईण मण-हरा विलया। इण्हि रायाणेहिं उअ जल-कीला-पयडेहिं ॥ ६४॥ . रण्णा अराइणा वि हु उच्छालिजन्ति नीर-लहरीओ। . . .
मगहाण राइणो कोसलाण रण्णो अ सविहम्मि ॥६५॥ सह इमे पुरोवर्तिनो राजानः इह अत्र प्रदेशे रमन्ते । तथा उअ पश्य राज्ञः । अङ्गानां राज्ञा शकानां राज्ञा.च सह राजानो रमन्ते ॥
६२. यदूनां यादवानां राज्ञः परतः परत्र देशे तथा चेदयो देशविशेषास्तेषां राज्ञः परतश्च राज्ञि अराज्ञि च तत्पन्यादौ एकाकारं प्रतिपत्तिभावाशङ्कारहितत्वेन निर्विशेषं जले क्रीडा अनयोरन्योन्यं नीरैरभ्युक्षणम् अस्ति । राज्ञ इत्यत्र परतस्तसन्तस्य योगे " प्रभृत्यन्यार्थ° " [हे° २. २. ७५ ] इति दिक्पञ्चमी । अतसन्तस्य तु योगे " शिरिष्टात् " [ हे २. २. ८२ ] इति षष्ठी ॥
६३. इह अत्र प्रदेशे वारिणा मजनं स्नानं तस्य. क्षणः कालस्तस्मिन् राज्ञाम् अराज्ञां च पौरजनानां समभावः मिथो जलाघातात् तुल्यत्वम् । तथा इह राजानम् अराजानं च राजभिः सह क्रीडन्तं पश्य ॥
६४. उअ पश्य इदानीं सांप्रतं जलक्रीडायां प्रवृत्तैर्व्यापृतै राजभिः सह राजभ्यः राज्ञः सकाशाद् राज्ञां मनोहरा मनोज्ञाश्चित्तावर्जिका वा वनिता वारविलासिन्यो राजसु यान्ति । राजसहिता एकान् राज्ञ उक्षित्वा अन्यान् उक्षितुम् उपगच्छन्तीत्यर्थः ॥ .
६५. मगधानां राज्ञः सकाशात् कोसलानां राज्ञः सविधे समीपे