________________
१३५
[है० ८.३.४८].. चतुर्थः सर्गः।
दे विनवोमि राया रायाणो देसु सव्वओ दिढि । उअ रायाणो के वीह के वि राया इह रमन्ते ॥ ५९ ॥ वाणारसीइ रण्णो कुरूण रायाउ अहिअमम्बु-छणो । रण्णो तिउरीए महुराए रायस्स य पयट्टो ॥ ६० ॥ हूणाण राइणा इह उअ रायाणो इमे पहु रमन्ते । अङ्गाणं रण्णा राइणो तह सगेण राएण ॥ ६१ ॥ माआओ । माआए । माअराउ । “ आ अरा मातुः” [ ४६ ] इति बाहुलकात् जनन्यर्थस्य आ.देवतार्थस्य तु अरा इत्यादेशौ ॥ पिअरा । " नाम्न्यरः" [ ४७ ] इत्यरः ॥ कत्ता । " आ सौ न वा” [ ४८ ] इति आः । पक्षे कत्तार ॥
५९-७७. एकोनविंशत्या महाकुलकम् । यस्मिन् काले जलेन पूर्ण शालभञ्जिकादिकर्णादिस्थानेभ्यः प्रपतन्नीरेण निभृतं यन्त्रगृहं धारागृहम् यस्मिन् काले [च] जलक्षणो. वारिक्रीडा भूतः संवृत्तस्तस्मिन् काले नरेन्द्रस्य श्रीकुमारपालभूपालस्य दौवारिकेण इदं पूर्वोक्तं प्रति. पादितम् । तदेवाह । - दे संबोधने । हे राजन् विज्ञपयामि । किं विज्ञपयसि । हे राजन् सर्वतो दृष्टिं देहि । समन्ताद् राजादीनां जलोक्षणम् ईशस्वेत्यर्थः । राजनिति संबोधनपदं प्रतिक्रियम् अग्रेपि योज्यम् । ततस्तत्परं भूपं ज्ञात्वा. आह । उअ पश्य राज्ञः । केपि राजानः इह अस्मिन् प्रदेशे रमन्ते । उअ पश्य राज्ञः । केपि राजान इह रमन्ते ॥
६०. वाराणस्याः काशे राज्ञः सकाशात् तथा कुरूणां राज्ञः सकाशाद् अधिकं गाढतरं यथा इति एवं त्रिपुर्याश्चेदिनगर्या राज्ञो मथुराया राज्ञश्च अम्बुक्षणः प्रवृत्तः ॥ .६१. हे प्रभो उअ पश्य राज्ञः । हूणा देशविशेषाः । तेषां राज्ञा १ D पूर्वोक्त विज्ञपितं प्रति.