SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ कुमारपालचरिते भत्तारा जाण वसे धन्ना इत्थीण ताण माआओ । माआए किं जणिआ किं महिआ माअराउ मए ॥ ५७ ॥ देवा पिअरा सरणं संहर कत्तार भुअण-कत्ता मं । अन्नाइ छण्ठणे पिअयमम्मि कीए वि इअ रुण्णं ॥ ५८ ॥ इत्यर्थे पितृशपथं कुर्वाणस्तया ऊचे । त्वं मह्यं मा शपस्व आत्मपितरम् तच्छपथं मा कार्षीः । यतस्त्वं किम् अस्माकं भर्ता । किं तु तस्या एवेत्यर्थः ॥ ५७. एवं भर्तारं निर्भर्त्स्य सनिर्वेदम् आकाशोक्तिमेवाह । भर्तारो यासां वशे आज्ञायां धन्याः कृतपुण्यास्तासां स्त्रीणां मातरो जनन्यः । न पुनस्त्वद्भर्तृकाया मम मातेत्यर्थः । तथा किं मात्रा अहं जनिता उत्पादिता । अयम् अभिसंधिः । यद्यहं तया नोत्पादिता स्यां तदा नैवं पराभवभाजनं स्याम् इति । तथा किं मातरः । ब्राह्मी माहेश्वरी चैन्द्री वाराही वैष्णवी तथा । कौमारी चर्ममुण्डा च कालसंकर्षणीति च ॥ इत्यष्टौ देवताविशेषाः । अथ वा । - १३४ अमृताद्या ब्रह्माणी सिद्धिर्माहेश्वरी च कौमारी । वैष्णव्यथ वाराही चामुण्डा मातरः सप्त ॥ इत्येवं सप्त वा मया महिताः पूजिताः । किल एतन्मातृपूजनं भर्तृवाल्लभ्याय कृतम् । तच्च नास्ति । तस्मात् तदपूजनमेव श्रेयः । ५८. देवाः हरिहरब्रह्माणः पितरो मातृपित्राद्याः शरणम् । एवंविधदुःखदग्धाया मम त्राणं सन्तु । तथा भुवनत्रयकर्तः जगत्त्रयनिर्माणकर्तः स्रष्ट: मां संहर । येन नैवैतस्माद् आधिर्भवतीत्यर्थः ॥ " माउण CC ऋतामुद ० [४४] इति ऋदन्तानाम् उत् वा । बहुवचनस्य व्याप्तयर्थत्वाद् यथादर्शनं नाम्न्यपि । पक्षे भत्तारा । अस्य मौस्विति किम् । पिआ । पिअरा । पिअरं ॥ भत्तारो । भत्तारा । आरः स्यादौ ” [ ४५ ] इति आरः ॥ ८८ १ BC सिद्धी मा°.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy