________________
[है० ८.३.४३] - चतुर्थः सर्गः ।
१३३ जामाउणो रमन्ते उअ वारिणि अपुरवं खु लडहत्तं । को अभो लडहो सम्भलीहि काहिं पि इअ भणिअं ॥५५॥ रे धुत्त-पिआ सि तुमं जग-पिअरा गोरि-संकरा सविमो ।
मा सवसु अप्प-पिअरं तं भत्तारो किमम्हाण ॥५६॥ अनया त्वत्सपल्या सह रन्तारं रमणशीलम् इमं पुरोवर्तिनं प्रियम् खलप्वः कर्षकस्य वध्वा ग्रामणीः भर्ता तमिव । अकृत्यकारितया हालिकम् इत्यर्थः । त्यज मा अङ्गीकार्षीः इति अनया रीत्या कापि सख्या शिक्षिता ॥
सहि । वर-वहु । " ईदूतोहस्वः ” [ ४२ ] ॥ गामणि । खलपुणो । “किपः" [४३] इति ह्रस्वः ॥
५५. जामातरो दुहितृपतयः वारिणि रमन्ते अस्मत्पुत्रिकाभिः सह जलकेलिं कुर्वन्ति । उअ पश्य जामातॄन् । इति एकया उक्ते सति अपरा प्राह । खु आश्चर्यम् अपूर्व लोकोत्तरम् । जातिविवक्षया एकवचनात् जामातुः । लडह इति देश्यो लटभशब्दः संस्कृतो वा सुन्दरार्थः । ततो लडहत्तं लटभत्वं वा सौन्दर्यम् । ततस्तदन्यापि आह । कोन्यः अपरो जामातुंः सकाशात् लटभः प्रधानः । किंतु इत्थं यौवनमाननाद् एष एवेत्यर्थः । इति अनया रीत्या काभिरपि सम्भलीभिः तत्क्रीडावलोकनागततटस्थकुट्टिनीभिर्भणितं जल्पितम् ॥
५६. त्रिभिर्विशेषकम् । अन्यस्याः सपत्न्याः । उक्षेस्तक्षादित्वात् [४. ३९५ ] छण्ठादेशः । उक्षणे जलेन आहनने कृते सति प्रकटेन अनेन मदीयापरान निश्चितम् इयं मानिनी बहु किमपि कुपिता भविष्यतीति प्रसादयितुं समागते प्रियतमे इति अनया रीत्या कयापि रुदितं साश्रुपातम् उक्तम् । तदेवाह । रे त्वं धूर्तानां पिता। शाठ्याचरणाद् मायाविनां मुख्य इत्यर्थः । असि वर्तसे । अत्रार्थे जगतः पितरौ गौरीशंकरौ । आत्मानं बहुमन्यमाना बहुवचनेन निर्दिशति । वयं तुभ्यं शपामहे तच्छपथं कुर्मः । ततोसौ तद्रञ्जनाय मम त्वमेव प्रिया तस्यास्तु सेचनं मया एवमेव कृतम् .१ B गामिणि. २ CD add परस्परं before जल्पितम्.