________________
११८
___ कुमारपालचरिते अव्वो नओ तुह पिओ अव्वो तम्मसि कीस किं एसो । अव्वो अन्नासत्तो अव्वो तुज्झेरिसो माणो ॥१४॥ अव्यो पिअस्स समओ अव्वो सो एइ रूसणो अश्वो । अव्वो कटुं अव्वो किं एसो सहि मए वरिओ ॥१५॥ अइ एसि रइ-घराओ वणे मिलाणा सि दइअ-दरवलिआ । मुणिमो वणे न मुणिमो तं न वणे कहइ न जमङ्गं ॥१६॥
रे इति संभाषणे । निकृष्ट अधम कलहशील । अरे इति रतिकलहे। रतिकलहकारकेत्यर्थः । हरे इति संभाषणे रतिकलहे क्षेपे च । दासोसि अस्या मत्सख्याः । ओ इति सूचने । शठोसि गूढापराधो वर्तसे । ओ इति पश्चात्तापे । किम् असि दृष्टः । त्वदर्शनात् पश्चात्तापो जात इत्यर्थः॥
१४. अव्वो इति सूचने । नतस्त्वां प्रियः। अव्वो इति कष्टम् । किं ताम्यसि । अव्वो इति संभाषणे । किम् एष समीपवर्ती अन्यासक्तः । अव्बो इत्यपराधे विस्मये च । तव ईदृशो मानः । सप्रणये प्रणयिनि मानकरणाद् अपराध आश्चर्य च ॥
१५. अव्वो इति आनन्दे । प्रियस्य समयः आगमनलक्षणः । अव्वो इति आदरे । एति आगच्छति स मद्वल्लभ: । अव्वो इति भये । बिभेमि रोषणः स्तोकापराधेपि कोपनः सः । अव्वो इति खेदे विषादे च । कष्टं यथा भवति एवं खिन्ना विषण्णा चाहम् इत्यर्थः । अव्वो इति पश्चात्तापे । अनुतप्तास्मि किम् एष सखि मया वृतः॥
१६. अयोति संभावयामि । त्वम् एषि आगच्छसि रतिगृहात् । वणे इति संभावयामि । यतो दयितेन उपभुक्ता सती म्लाना विच्छायासि । वणे इति विकल्पे । जानीमो वा न जानीमः । परं वणे इति निश्चितम् । तद् नास्ति यद् अङ्गं न कथयति । दन्तक्षतादिप्रकट
१० तुन्भेरिसो. २ D गिलाणा. .