SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ११६ कुमारपाल चरिते पहिआ अलाहि गन्तुं अणदइआण कुसलाइँ इह णाई । माइँ इह एध हद्धी इअ व्व चीरीहि उल्लविअं ॥ ८ ॥ समुह अम्मि भमरे वेव्वे त्ति भणेइ मल्लिउच्चिणिरी । वारण- खेअ भएहिं भणिउं वेव्वे वयंसे त्ति ॥ ९ ॥ वेव्व सहि चिट्ठसु हला निसीद मामि रम जासि कत्थ हले ! दे पसिअ किमसि रुट्ठा हुं गिण्हसु कणय - भायणयं ॥ १० ॥ ८. भोः पान्थाः । अलाहि इति निवारणे । अलं गत्वा । गमनेन स्मृतम् इत्यर्थः । अण इति नञर्थे । अदयितानां कान्तारहितानाम् । rt इति नर्थे । इह अस्मिन् वने न कुशलानि । अतः | माई मार्थे । मा इह वने एत । अपि तु स्वपत्नीपार्श्वे गच्छतेत्यर्थः ! इतीव । हद्धी इति निर्वेदे । सनिर्वेदं यथा भवति एवं चीराभिल्लपितम् । कूजितव्याजेन पान्थान् प्रति चीरिकाभिरिदम् उक्तम् इत्यर्थः ॥ अलाहि । “अलाहि निवारणे" [१८९] ॥ अण । णाई । "अग णाई नञर्थे” [१९०] ॥ माई । "माई मार्थे” [१९१] ॥ हद्धी । “हद्धी निर्वेदे” [१९२] ॥ ९. वेव्वे इत्यामन्त्रणे । हे वयस्ये इति भणित्वा संमुखोत्थिते 'भ्रमरे वारणम् अलेर्हस्ततलचालनेन निषेधनम् खेदस्तन्निवारणादेव प्रयासः भयम् अलिदशनात् त्रासः तैः कृत्वा वेव्वे इति मल्लिकाम उच्चेत्री मल्लिकापुष्पावचयकर्त्री भणति ।। वेब्वे । “वेव्वे भयवारणविषादे” [१९३] ॥ १०- २१. अधुना गाथाद्वादशकेन ग्रीष्मपानक्रीडाम् आह । द्वादशभिः कुलकम् । ग्रीष्मसुखं मानयितुम् अनुभवितुं प्रवृत्ता एता १ BD सृतम् . २ C अमुना.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy