________________
[है० ८.२.१४८] चतुर्थः सर्गः । फुल्ल च सुगन्ध चिअ लयाण नोमालिआ बले रम्मा । जा किर मल्ली जा इर जवा बले ते. मयण-बाणा ॥६॥ सुत्ते जणम्मि जो हिर सद्दो चीरीण सुव्वए णवर । गाअइ किल तस्स मिसा णवरि वसन्तस्स गिम्ह-सिरी ॥७॥
अफुल्ला लवलीः ॥ तथा ग्रीष्मश्रीः स्फुटैव । कथम् । तेन लक्षीकृत्य । किम् । फुल्लं धूलिकदम्बम् ॥ “गौणात् समया" [ हे ० २.२ ] इत्यादिना येनतेनयोगे द्वितीया । फुल्लं चेति चकारः पृथग्वाक्यद्योतनार्थः ॥ - जेण । तेण । “जेण तेण लक्षणे" [१८३] ॥
६. फुल्लैव सुगन्धैव । बले इति निर्धारणे । लतानां मध्ये नवमालिका रम्या ॥ तथा या । किलेति संभावयामि । मल्ली । या किल जपा । बले इति निश्चितम् । ते मदनस्य बाणौ । तत्साध्यपान्थमोहनादिकार्यस्य ताभ्याम् अनुष्ठानात् ॥
णह । चेअ । च । च्चिअ । “णइ चेअ चिअ च अवधारणे" [१८४] ॥ . बले । “बले निर्धारणनिश्चययोः" [१८५] ॥ .. ७. सुप्ते जने यः किल शब्दश्वीरीणां भृङ्गारीणां श्रूयते । किलेति प्रसिद्धौ । लोकस्वापवेलायां चीरीनादः श्रूयत इति लोकप्रसिद्धिः । णवरेति केवलम् । तस्य मिषात् चीरिकाध्वनिव्याजात् । णवरि इति आनन्तर्ये । वसन्तस्य अनन्तरम् किलेति संभावयामि । ग्रीष्मश्रीर्गायति हंषाद् गानं करोतीव ॥ किर । इर । हिर। "किरेर हिर किलार्थे वा" [१८६] । पक्षे किल ॥ . णवर । “णवर केवले" [१८७] ॥ णवरि । "आनन्तर्ये णवरि" [१८८] ।
१B महाराणी