________________
१०८
कुमारपालचरिते पीणत-निहि-निअम्बे तिलेल्ल-अङ्कोल्लतल्ल-कन्तिल्ले । मा तित्तिएण कुप्पेत्ति इत्तिों को वि पियमाह ॥ ७९ ॥ जिचिअमतं रचो म्हि एति रच एत्तिलं किमिमं । केग वि एदहमुचा तुहिका माणिणी जाआ ॥ ८ ॥ ... सिहिओ सि जेत्तिअंजेत्तिलं च भणिओ सि जेदहं थविओ। .. न हु तेत्तिएण होसि त्ति पई कीड वि उवालद्धो ॥ ८१॥
७९. पीनत्वस्य निधिः स्थानं नितम्बो यस्यास्तस्याः संबोधनम् । तिलस्य स्नेहस्तिलतैलं तच्च अङ्कोठतैलं च ते इव कान्त्रिमति तद्वस्निग्धकान्तियुक्ते त्वं तावता सख्याधुक्तालीकव्यलीकमात्रेण मा कुप्य । इति इत्थम् एतावत् इथन्मानं कोपि कश्चित् प्रियाम् आह ॥
पीणिम पीणत्तम । “त्वस्य डिमात्तणौ वा"[१५४] इति त्वस्य डिमासणौ। पक्षे पीणत्त ॥ .. तिलेल्ल । “अनोठ' [१५५] इत्यादिना तैलस्य डेलः। अनङ्कोठाद् इति किम् । अङ्कोलतेल्ल ॥
८०. कश्चिन्मानिनी प्रसादयन् तया च तत्संयुक्तस्त्वं न मयि तव . प्रेमानुबन्ध इत्यादि सक्रोधं निर्भय॑मानः तां प्रति आह । यावन्मानं रक्तः अनुरागयुक्तोस्मि अहं त्वमपि इयत् एतावद् वा रज्यस्व अनुरागं कुरु । नाहम् अधिकम् अर्थये इत्यर्थः । इयत् एतावद् वा इदं क्रोधाडम्बरं किम् । निरर्थकम् इत्यर्थः । केनापि इयत् एतावद् वा उक्ता सती मानिनी तूष्णीका जाता । निश्चितस्ववाल्लभ्यतया न किंचिद् उपालेभे इत्यर्थः॥
तित्तिएण । इत्तिअं । जित्तिअ । “ यत्तद" [१५६] इत्यादिना एभ्यो डावादेरतोः परिमाणार्थस्य इत्तिअः एतदो लुक् च ॥
८१. यावत् यत्परिमाणं स्पृहितः चेतसि वाछितोसि यावद् १ BC मि.