________________
१०७
[ है ० ८.२.१५३] तृतीयः सर्गः
तुम्हेच्चया य अम्हेच्चया य एगव्व होउ तणु-लट्ठी । इअ जम्पिऊण दइआ केण वि सव्वङ्गिअं गहिआ॥ ७७॥ तुह पय-पह-पहिओ हं अप्पणयो पीणिम-प्पणइ-जहणे । पीणत्तण-सालि-थणे इअ केण वि तोसिआ रमणी ॥ ७८ ॥ तव परकीयः । किं तु तावकीन इत्यर्थः । ततस्त्वयापि मदीययैव भवितव्यम् इति भावः । इति अनया रीत्या केनापि राजकीयेन राजसंबन्धिना राजवारवनिता भणिता ॥
पारकेरा । पारको । राइक्क । रायकेरेण । “परराजभ्यां कडिक्को च”[१४८] इति आभ्यां यथासंख्यं क डित् इक्कश्च । चकारात् केरश्च ॥ __७७. यौष्माकी च आस्माकी च तनुयष्टिः एकवद् भवतु । आवयोः संयोगो जायताम् इति भावः । इति पूर्वोक्तं कथयित्वा केनापि सर्वाणि अङ्गानि व्याप्नोति यद् ग्रहणं तत् सर्वाङ्गीणं यथा भवति एवं दयिता प्रिया गृहीता ॥ . . . . .. तुम्हेच्चया । अम्हेच्चया। "युष्मद' [१४९] इत्यादिना अञ एच्चयः॥
. एगव्व । “वतेवः” [१५०] इति वतेः प्रत्ययस्य व्वः ॥ . . सव्वङ्गिअं । “सर्वाङ्गादीनस्येकः''[१५१]इति “सर्वादेः पथ्यङ्ग'[हे ० ७.१] • इत्यादिना विहितस्य ईनस्य स्थाने इकः ॥
७८. पीनत्वप्रणयि काठिन्ययुक्तं जघनं यस्यास्तस्याः संबोधनम् । तथा हे पीनत्वशालिस्तनि तव अहम् आत्मीयः स्वकीयः पदपथपान्थः । अनुचर इत्यर्थः । इति अनया रीत्या केनापि रमणी तोषिता तोषं नीता ॥
पहिओ। "पथो णस्येकट्' [१५२] । “नित्यं णः” [ हे० ६.४ ] इति यः पथो णो विहितस्तस्येकट् ।।
अप्पणयो । “ ईयस्यात्मनो णयः" [१५३] इति ईयस्य णयः ॥ . . १ D गृहीता आलिङ्गिता.