________________
१०६
कुमारपालचरिते • आसण-ठिआइ घरिणीइ गह-चई झम्पिऊण अच्छीई।
हसिरो मोत्तुं सर्वं चुम्बिअ अन्नं सढो मुइओ॥ ७४ ॥ मा सोउआण अलिअं कुप्प मईआ सि तुम्हकेरो हैं । इअ केण वि अणुणीआ णिअय-पिआ पाणिणीअजडा ॥७५॥ किं हवसि पारकेरा न हु पारको तुहाहमिअ भणिआ। . राइक-वार-विलया केणावि हु रायकेरेण ॥ ७६ ॥
७४. रमणमेव गाथाषोडशकेनाह । आसनस्थिताया उपविष्टाया . गृहिण्या अक्षिणी झम्पिऊणेति हस्ताभ्यां पिधाय शङ्कां भीतिं मुक्त्वा. अन्याम् अपरां स्त्रियं चुम्बित्वा हसिता चस्करिकरणशीलः शठो . गूढापराधो गृहपतिर्मुदितः ॥ " भ्रमेष्टिरिटिल्ल ” [ ४.१६१] इति भ्रमेझम्पादेशे " धातवोऽर्थान्तरेपि' [ ४.२५१ ] इति पिधानार्थत्वम् ॥ ..
घरिणी । “ गृहस्य घरोऽपतौ” [१४४] इति घरः । अपताविति किम् । गह-वई॥
पिच्छिरेहिं । हसिरो । “शीलाद्यर्थस्येरः" [१४५ ] इति “ तृन् शील [ हे ० ५.२ ] इत्यादिभिर्विहितस्य प्रत्ययस्य इरः ॥ ____७५. अलीकं सख्यायुक्तकूटं श्रुत्वा आकर्ण्य त्वं मा कुप्य मा रोषं कुरु । मदीया त्वम् त्वदीयोहम् इति अनया रीत्या केनापि पाणिनीयेन पाणिनीयव्याकरणेन अजडा विचक्षणा निजकप्रिया स्ववल्लभा अनुनीता प्रसादिता । विचक्षणो हि सुखेनैव प्रसाद्यते ॥
झम्पिऊण । मोत्तुं । चुम्बिअ । सोउआण । "क्त्वस्तुम" [१४६] इत्यादिना तुम् अत् तूण तुआण इत्येते आदेशाः ॥ वन्दित्तु इति अनुस्वारलोपात् । वन्दित्ता [इति] सिद्धसंस्कृतस्यैव वलोपेन । कटु इत्याचे शेयम् ॥ ___ तुम्हकेरो । " इदमर्थस्य केरः" [१४७] इति इदमर्थस्य केरः । न च भवति । मईआ । पाणिणीअ ॥
७६. किं त्वं परकीया भवसि यतः । हु इति निश्चितम् । नाहं १ BD सठो.