________________
१००
कुमारपालचरिते . . कुसुमाकर-रिउ-स-जणा सुवे जणा पारिजाय-तरुणो व्व । सर-जीआभालि-कुला सर-ठग-वाणारसि-पएसा ॥ ५९॥ आणाल व्व कणेरूहि कुरवेया दढयरं समालिद्धा ।
वर-विलयाहि अहरिआलचपुर-मरहट्ठ-जुवईहिं ॥ ६० ॥ न्यस्ताः । विचक्षणा हि प्रतीक्ष्य स्वयं विकसिता एक ता गृह्णाति तया तु अन्यथा कृतम् इति मुग्धत्वम् ।।
तणुवी । गरुवी । उकारान्ता ङीप्रत्ययान्तास्तन्वीतुल्यास्तेषु “ तन्वीतुल्येषु" [११३] इति संयुक्तान्त्यात् पूर्व उः॥ क्वचिद् अन्यत्रापि। सुरुष ॥ आर्षे । सुहुमं।
५९. युग्मम् । कुसुमानाम् आकरः उत्पत्तिस्थानं य ऋतुः । वसन्त इत्यर्थः । तस्य स्वजना इव तदुदये तेषां समृद्धिभावाद् बन्धव इव । तथा पुष्पपत्रादिसादृश्याद् मन्यन्ते स्वज़ना इव सहोदररूपा बान्धवा इव पारिजाततरोवृक्षस्य । स्मरस्य ज्या प्रत्यञ्चा तदाभम् अलिकुलं येषु ते तथा । स्मर एव ठको विप्रतारकस्तस्य वाराणसीप्रदेशा इव । यथा वाराणसी ठकानां स्थानं तथा एते दंपत्योरुत्कण्ठादिजननात स्मरस्येति भावः ॥
६०. एवंवर्णितस्वरूपाः कुरबकाः अधरिता लावण्यप्रशस्यसंस्थानादिना पराभूताः अचलपुरं च नगरविशेषः । महाराधे च सुरामम् । तयोयुवत्यो यकाभिस्ताभिर्वरवनिताभिः दृढतरम् अत्यर्थं पुष्पोच्चयाय समाश्लिष्टाः । यथा आलानानि आलानस्तम्भाः करणुभिः ॥ "वाक्ष्यर्थवचनाद्याः" [१.३३] इति आलानस्य पुंस्त्वम् ॥ __ सुवे । सुवे । “एकस्वरे श्वः स्वे" [११४] इति श्वःस्वयोरन्त्यव्यसनातन पूर्व उत् । एकस्वर इति किम् । सर्जणा ॥
जीआ। “ज्यायाम् ईत् ” [११५] इति अन्त्यव्यञ्जनात् पूर्व ईत् ॥
वाणारसि। कणेरूहि । “करेणू” [११६] इत्यादिना रणयोर्व्यत्ययः । करेणू इति स्त्रीलिङ्गनिर्देशात् पुंसि न । . १ D आलाण. २ BD कुरु°. ३ BD दढतर, ४ D कष्ठाधिन ५ D सुराष्ट्रा तयोर्युवतयो. ६ BD सयणा.