________________
[है० ८.२.११२] तृतीयः सर्गः ।
९९ अणरह अणरुह-दामं रे मुक्ख-मुरुक्ख करसि इअ भणिउं । पोम्मच्छीए हणिओ को वि पिओ पाय-पउमेण ॥५६॥ छउमेण अछम्मेण य साम-दुवारेण दण्ड-वारेण । केण वि का वि अगेज्झा बउलेहि पसाइआ तणुवी ॥ ५७॥ गरुवीओ लवलीओ सुहुँमे वत्थे सुरुग्धजे खित्ता। कीए वि हु मुद्धाए सुवे विहसिरा वि कलिआओ ॥ ५८ ॥ कसिण । कसणा कण्हं । "कृष्णे वर्णे वा” [११०] इति संयुक्तान्त्यात् पूर्वी अदितौ वा । वर्ण इति किम् । विष्णौ कण्हं ।। . ५६. अनर्ह विप्रियकरणाद् अयोग्य रे मूर्खमूर्ख वठरवठर अनर्हदाम अमनोज्ञत्वाद् मम अयोग्यां मालां करोषीति भणित्वा पद्माक्ष्या कोपि प्रियः पादपद्मेन हतः ।। मुक्ख-मुरुक्ख इत्यत्र कोपे “संमत्यसूया" [हे० ७.४ ] इत्यादिना द्विरुक्तिः ॥ .. अरिहा अणरह अणरुह । " उच्चाईति" [१११] इति संयुक्तान्त्यात् पूर्व उत् अदितौ च ॥ . ५७. छद्मना शाठ्येन अच्छद्मना आर्जवेन सामद्वारेण प्रियवाक्यमुखेन दण्डः यदि त्वं मदुक्तं न करिष्यसि तदा न त्वं मम प्रिया नाहं तव प्रियः इत्यादिरूक्षवाक्यद्वारेण च कापि तन्वी मृद्वङ्गी अगृह्या अनावर्जनीया केनापि बकुलैः केसरकुसुमैः प्रसादिता प्रसन्नीकृतां ॥ __ मुक्ख मुरुक्ख । पोम्म पउमेण । छउमेण अछम्मेण । [ दुवारेण वारेण] " पद्मच्छममूर्खद्वारे वा” [११२] इति संयुक्तान्त्यात् पूर्व उत् वा ।।
५८. सूक्ष्मे सुघ्नजे देशविशेषोत्पन्ने वस्त्रे । हु इति निश्चितम् । कयापि मुग्धया अविचक्षणया गुर्वीतो महत्या लवलीतः श्वः आगामिदिने विहसियोपि विकसनशीला अपि कलिकाः कोरकाः क्षिप्ताः १B सुहमे C सुहुमे. २ BD प्रेयान्.