________________
९८
कुमारपालचरिते गुम्फन्ती जव-दामं भविअ-सिआवाइ-चेइअ-निमित्तं । का वि जुबई जुवाणय-मण-थेरिअ-चोरिअमकासि ॥५३॥ सिविणम्मि वि अइदुलहा सिणिद्ध-कुसुमा सणिद्ध-मयरन्दा। परिमल-णिद्धा कीइ वि रइआ वासन्तिआ-माला ॥५४॥ कण्ह-कसिणालि-कसणा लवली गन्धारिहा वि नोचिणिआ। केण वि कजल-कण्हं सुमरिअ कबरिं पिअयमाए ॥५५॥
५३, भृव्यं यत् स्याद्वादिनो जिनस्य चैत्यं तन्निमित्तं जपादाम गुम्फन्ती प्रश्नती कापि युवती युवमनसां यत् स्थैर्य निर्विकारतादाऱ्या तस्य सलीलपुष्पग्रहणगुम्फादिना हरणम् अकार्षीत् ॥ ..
भविअ । सिआवाइ । चेइअ । थेरिअ । चोरिअ।" स्याद्भव्य "[१७] इत्यादिना स्यादादिषु चौर्यसमेषु च यात् पूर्व इः ॥,
५४. स्वप्नेप्यतिदुर्लभा तथाविधाया आजन्माप्यदर्शनात् । स्निग्धानि अरूक्षाणि । सरसानीत्यर्थः । एवंभूतानि कुसुमानि यस्यां सा तथा स्निग्धमकरन्दा सार्द्रपरागा अतएव परिमलेन स्निग्धा भ्रमराणां प्रिया वासन्तिकामाला माधवीलतास्रक् कयापि रचिता प्रथिता ॥
सिविणम्मि " स्वप्ने नात् " [१०८] इति नात् पूर्व इः ॥
सिणिद्ध सणिद्ध । “स्निग्धे वादितौ” [१०९] इति नात् पूर्वी अदितौ वा । पक्षे णिद्धा ॥
५५. कृष्णवत्कृष्णा ये अलयस्तैः कृष्णा । मकरन्दपानाय षट्पदाच्छादितेत्यर्थः । गन्धेन सौरभ्येण अर्हा षुष्पोच्चययोग्यापि कज्जलपत्कृष्णां प्रियतमायाः कबरी वेणि स्मृत्वा सादृश्यात् केनापि लवली नोचिता । प्रियानुध्यानविह्वलत्वेन न तत्कुसुमावचयः कृत इत्यर्थः॥