________________
[है० ८.२.१०६] तृतीयः सर्गः ।
वासेणं वरिसेहि वि नामरिसो किर पियाइ जो गमिही । सो दरिसिअ-नव-चूए पिए गओ झत्ति हरिस-बसा ॥५०॥ मयण-वहरग्गि-तत्तेण तोसिआ सुदढ-माण-तविअ-पिआ । कवि वज-कढिण-हिअया केण वि दाउं बउल-दामं ॥५१॥ कीइ वि किलन्त-कम-विप्पव-हरणा मल्लिआण मालाओ । महु-सुक्क-पक्ख-जुण्हा-पव व्व उप्पाविआ गयणे ॥५२॥
५. वसन्तकुसुमोच्चयमेव गाथात्रयोविंशत्या प्राह ॥ वर्षेण एकेन वरपि बहुभिः । किलेति संभावने । प्रियाया योऽमर्षः मानो नागमत स दर्शितनवचूते इतः पश्येत्यङ्गल्या प्रकटितमाकन्दे प्रिये झटिति तत्क्षणादेव हर्षवशात् चूतदर्शनोद्भतरणरणकोपशमप्रियदर्शनोत्थप्रमोदाद् गतः ॥ ___५१. मदन एव वज्राग्निः अनुपशमकवह्निस्तेन तप्तेन दग्धेन केनापि [सुदृढमानतप्तप्रिया] सुदृढमानेन अनिवर्तकाहंकारेण तप्ता अत्यन्तम् असहना वज्रकठिनहृदया प्रिया कापि बकुलदाम दत्त्वा तोषिता ॥ . दंसिआ दरिसिअ । वासेणं वरिसेहि । वइर वज । तत्तेण तविअ । “शर्ष" [१.०५] इत्यादिना संयुक्तान्त्यात् पूर्व इयं ।। व्यवस्थितविभाषया क्वचिन्नित्यम् । नामरिसो । हरिस ॥ . ५२. [कयापि ] क्लान्तानां खिन्नानां क्लमः खेदः तेन विप्लवः अङ्गविसंष्टुलता तस्य हरणीः शैत्याद् अपहारिका मल्लिकानां विचकिलकुसुमानां मालाः स्रजो गगने उत्प्लाविता उत्क्षिप्ताः सत्यः उत्प्रेक्ष्यन्ते मधुरेव सर्वत्र पुष्पोद्गमैः शौक्लयकरणात् शुक्लपक्षः । तस्य ज्योत्स्नाप्लवा इव चन्द्रिकापूरा इव ॥ ___किलन्त । “लात्" [१०६] इति संयुक्तान्त्यलात् पूर्व इः। कचिन्न । कम । विप्पव । सुक-पक्ख । पव । उप्पाविआ ॥ .. BD°कढण°. २ B °संस्थुलता. ३.B हरणी शौ....
7 [ कुमारपालचरित]