SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ कुमारपालचरितं · जुव जण - जणिअ-संणेहा पउत्थ - विरहागणिम्मि णेह समा । मयण- पयावग्ग - णिहा पलक्ख - तरु- पल्लवा जाया ॥ ४८॥ सिरि-नन्दण - किरिआरिह-तरुणीहिं चइअ - कसिण-हिरिआहिं । अह कुसुमावचय-कलाओं दंसिआ दिट्टिआ भणिउं ।। ४९ ।। 66 सारङ्गि । शार्हे ङात् पूर्वोऽत् ” [ १०० ] इति ङात् पूर्वः अत् । छम । रयण । सलाह | "क्ष्मश्लाघा ० " [१०१] इत्यादिना अन्त्यव्यञ्जनात् पूर्वः अत् ॥ ४८. युवजनानां जनितस्नेहाः प्रियायाम् उत्पादिताभिलाषाः प्रोपितानां विरह एव प्रियावियोग एव संतापकत्वाद् अग्निस्तस्मिन्स्नेहसमाः तद्वृद्धिजननाद् घृतादिसदृशाः । मदनप्रताप एव सोदुम् अशक्यत्वेन अग्निः तेन निभास्तुल्याः लक्षतरोः पल्लवाः किशलयानि जाताः ॥ सणेहाणेह । अगणिम्मि अग्गि । " स्नेहाग्न्योर्वा ” [१०२] इति संयुक्तान्त्यात् पूर्वः अत् ॥ 66 पलक्ख । प्लक्षे लात् ” [ १०३ ] इति लात् पूर्वः अत् ॥ ४९. त्यक्तकृत्स्नह्रीकाभिः मुक्तसख्यादिसक्त समस्तलज्जाभिः । श्रीनन्दनः स्मरः तस्य याः क्रियाः कटाक्षविक्षेपसहास्यकथाद्यास्तासाम् अर्हा योग्या यास्तरुण्यस्ताभिः अथ सर्ववनराजिपुष्पोद्गमान्तरं कुसुमावचयकलाभणित्वा एवमेवं क्रियन्ते इति परस्परम् उक्त्वा दिष्ट्या आनन्देन दर्शितः प्रकटिताः ॥ सिरि । किरिआरिह । कसिण । हिरिआहिं । दिट्ठिआ । " श्री० [१०४ ] इत्यादिना एषु संयुक्तान्त्यात् पूर्व इः । १ BC सिहा.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy